________________
९२
संगीतरत्नाकर:
विधेयो विविध वेण्यां प्रवृत्तं वा मतान्तरात् । वेण्यां तु प्रवृत्तं स्यादवगाढं परे जगुः || १५८ ॥ पादोपपातसंपिष्टेऽप्यभ्यधुर्विविधं बुधाः । विविध वैककं वज्र एककं तूपवर्तने ॥ १५९ ॥ विविधचतुरस्यादेकं वाथवैककम् । कलाप्रयोगनिर्मुक्तं संप्रयुज्यावपाणिना ।। १६० । hortage विविध विधेयो गानवेदिभिः ।
प्रयोजनम् ? पातकलानियमस्य द्वादशसु कलासु पृथक् पातानां निरूपितत्वात् । भवेदिति । वेण्यां प्रवेण्यां च यथाक्षरषट्पितापुत्रक इत्येकः । द्विकलो वा पञ्चपाणिरिति द्वितीय: । यथाक्षरात् चच्चत्पुटादनन्तरं द्विकलचच्चत्पुट इति तृतीय: । यदि वा यथाक्षरे पञ्चपाणौ वेणी, द्विकले पञ्चपाणौ प्रवेणीति चतुर्थ: । प्रवण्यनन्तरमिति । प्रवेण्यनन्तरमुपवर्तनं गातव्यमिति केषांचिन्मतम् । पादेति । पपितापुत्रकेण पादस्य उत्तरार्धतालेन द्विकलष पितापुत्रकेण वा उपपातः कार्यः । ततः ; उपपातादनन्तरम्, अन्तो नास्ति चेत्, अन्ताहरणं कर्तव्यं वा न वा । अन्ते सत्यवश्यमन्ताहरणमस्त्येव । अन्ते तु सप्ताङ्ग ओवेणके द्विधा; युग्मोऽयुग्म इति । अन्यत्र तु द्वादशाङ्ग ओवेणके तु त्रिधा ; युग्म:, अयुग्म:, मिश्र इति। अन्ताहरणादीनामिति । आदिशब्देन युग्मादयो ग्राः ॥ - १५२ - १५७ ॥
1
(क०) वेण्यादिषु विविधादीनि गीताङ्गानि यथायोगं योजयतिविधेयो विविध इत्यादिना । चतुरश्रो विविध इति । चतुरश्र एककं विविधं चेत्येकः पक्षः । अथवा कलाप्रयोगनिर्मुक्तं युग्मप्रवृत्तोक्तनिष्क्रामादिकलायोगरहित मेककमवपाणिनातीतग्रहेणेत्यर्थः । एवं प्रथमं प्रयुज्य पश्चादष्टासु कलासु निष्क्रामादिषु विविधो विधेयः ॥ १५८-१६०- ॥
(सु० ) विधेयो विविध इति । वेण्यां विविधः कर्तव्यः । मतान्तरात् प्रवृत्तं वा । प्रवेण्यां तु प्रवृत्तं कर्तव्यम्, मतान्तरात् पूर्वलक्षितमेव अवगाढं वा,
Scanned by Gitarth Ganga Research Institute