________________
पश्चमस्तालाध्यायः द्विकलो वाथवा चच्चत्पुटादूर्ध्वं यथाक्षरात् । चच्चत्पुटः स्याद् द्विकलो यद्वा वेणी यथाक्षरे ।। १५४ ।। पञ्चपाणौ प्रवेणी तु द्विकले मुनिभिर्मताः । प्रवेण्यनन्तरं कैश्चिदुपवर्तनमिष्यते ॥ १५५ ॥ पादोत्तरार्धतालेन द्विकलेनोत्तरेण वा । उपपातस्ततोऽन्तेन विनान्ताहरणं न वा ॥ १५६ ।। सत्यन्तेऽस्त्येव स द्वेधा सप्ताङ्गेऽन्यत्र तु विधा । लक्ष्मान्ताहरणादीनां ज्ञेयमुल्लोप्यकादिह ॥ १५७ ॥
पञ्चपाणी वेणी, द्विकले पञ्चपाणौ प्रवेणीति चतुर्थः पक्षः । प्रवेण्यनन्तरमुपवर्तनं कर्तव्यमिति केचिन्मतम् । पदोत्तरार्धतालेनेति । आनिवितादिकलायुक्तेन द्वादशगुर्वात्मकेन द्विकलेनोत्तरेण वोपपातः कर्तव्यः । तत उपपातानन्तरमन्तेन विनान्ताहरणं कर्तव्यमित्येकः पक्षः । न वेति तन्निषेधात् द्वितीयः पक्ष: । निषेधोऽप्यन्तेन विनेत्येतस्यांशस्यावगन्तव्यः । विशेषणनिषेधेनापि विशिष्ट निषेधस्य सिद्धत्वात् । तेन अन्तसहितमन्ताहरणं पक्षे कर्तव्यमिति गम्यते । सत्यन्त इति । अन्ते सतीति । अन्तसद्भावपक्ष इत्यर्थः । सोऽन्तः सप्ताङ्ग ओवेणके द्विधा युग्मोऽयुग्मश्च भवेत् । अन्यत्र तु द्वादशाङ्ग ओवेणके तु त्रिधा युग्मोऽयुग्मो मिश्रश्चेति भवेत् । अन्ताहरणादीनामिति । आदिशब्देन युग्मादयोऽन्तर्भेदा गृह्यन्ते ॥-१५२१५७ ॥
___(सु०) सप्ताङ्गेति । वेणुकस्य सप्ताङ्गत्वं च वर्णाङ्गैरेव केचिदाहुः । सप्तभिर्वर्णेविरचितमित्यर्थः । द्वादशाङ्गत्व इति । दशकलपक्षे द्वादशाभ्यः कलाभ्यः कर्तव्यमिति । के कले त्यज्य इत्यपेक्षायामाह--चतुर्थीति । द्वादशाभ्यः कलाभ्यः चतुर्थी पश्चमी च कला त्याज्ये भवतः । ननु किमनेन नियमेन
Scanned by Gitarth Ganga Research Institute