________________
९०
संगीतरत्नाकरः
द्वादशाङ्गे दशकलं सप्ताङ्गे स्त्रितरन्मतम् । सप्ताङ्गद्वादशाङ्गत्वे वर्णाङ्गैः केचिदूचिरे ॥ १५२ ॥ चतुर्थी पञ्चमी चेह त्याज्ये दशकले कले । भवेद्रेण्यां वेण्यां च पञ्चपाणिर्यथाक्षरः || १५३ ||
(सु० ) पदादीनां लक्षणमाह - यादृगिति । चतुष्कले अपरान्तके पूर्व चतुर्विंशतिगुर्वात्मकं यादृग वस्तूक्तं तादृगेवात्र पाद इत्युच्यते । तत: ; अनन्तरम् । तद्वत् ; चतुर्विंशतिगुर्वात्मकवस्तुवत्, पदान्तरैः अन्यैः पदैः विरचितः तादृगेव प्रतिपादः कर्तव्यः । मतान्तरमाह - सममिति ! शीर्षकाव्यमङ्गमाहुः । अतः प्रतिपादादनन्तरपदस्य उत्तरार्धेन सदृशं प्रतिपादं केचिदाह । अतः प्रतिपादादनन्तरं केचित् यथाक्षरेण षट्पितापुत्रकेण शीर्षकाख्यमङ्गमाहुः । शीर्षकादनन्तरं द्विकलेन षट्पितापुत्रकेण माषघाताख्यमङ्गं भवति । तस्मात् माषघातादनन्तरम् अपरान्तकवत् उपवर्तनं षट्पितापुत्रण गेयम् । इदमुपवर्तनं संपिष्टकादनन्तरं वा गेयम् । उभाभ्यां माषघातसंपिष्टकाभ्यां वा गेयम् । ततः ; उपवर्तनादनन्तरम् । तद्वत् उपवर्तनवत् यथाक्षरपट्पितापुत्रकेण संधिरपि गेयम् । ततोऽपि चतुरश्रकम् । तस्मात् चतुरश्रात् वज्रं संधिवत् यथाक्षरणोत्तरेण कर्तव्यम् । ततः वज्रादनन्तरं संपिष्टकं भवति । तच्च संपिष्टकं दशकलं द्वादशकलं वेति पक्षद्वयस्य व्यवस्थामाह - द्वादशाङ्ग इति । द्वादशाङ्गे वेणुके च सकलं संपिष्टकं सप्ताङ्गवेणुके इतरवत् द्वादशकलं भवति ॥ १४७ - १५१- ॥
(क०) सप्ताङ्गद्वादशाङ्गत्वे वर्णाङ्गः केचिदुचिर इति; चतुर्थीत्यादि । दशकल इह संपिष्टके द्वादशकल संपिष्टकोक्तासु कलासु चतुर्थी शम्या, पञ्चमी तालश्च ; एते कले त्याज्ये भवतः । द्वादशकले संपिष्टके वक्ष्यमाणा इतरा दश कलाः प्रयोक्तव्या इत्यर्थः । वेणीप्रवेण्योरङ्गयोर्यथाक्षरः पञ्चपाणिरित्येकः पक्षः । द्विकलो वा पञ्चपाणिरिति द्वितीयः । अथवा यथाक्षरात् चच्चत्पुटादूर्ध्वं द्विकलचच्चत्पुट इति तृतीयः । यद्वा यथाक्षरे
Scanned by Gitarth Ganga Research Institute