________________
पश्चमस्तालाध्यायः शीर्षात्परो माषघातो द्विकलोत्तरतालतः। अपरान्तकवत्तस्मात्परं स्यादुपवर्तनम् ॥ १४९ ॥ ऊर्ध्व संपिष्टकाद्वा स्यादुभाभ्यामथवा परम् । तद्वदेव ततः संधिस्ततोऽपि चतुरश्रकम् ॥ १५० ॥ युग्मप्रवृत्तवत्तस्माद्वगं संधिवदिष्यते । संपिष्टकं ततः कार्य दश द्वादश वा कलाः ॥ १५१ ॥
र्धातुसाम्यं गम्यते । पादपरार्धेनेति । पादस्य उत्तरार्धेन द्वादश गुर्वात्मकेन समम् । प्रतिपादं परे जगुरिति । अत्रापि पादोत्तरार्धधातुसाम्यं प्रतिपादस्यावगन्तव्यम् । अतः प्रतिपादात् परमनन्तरं यथाक्षरेणोत्तरेण शीर्षकं केचिदाहः। ततो माषघातो द्विकलोत्तरतालतः । अपरान्तकवदिति । द्विकलापरान्तकवदित्यर्थः । तस्मात् माषघातात्परमुपवर्तनं स्यात् । उपवर्तनं संपिष्टका_ वा स्यात् । अथवा उभाभ्यां माषघातसंपिष्टकाभ्यां परं स्यात् । माषघातानन्तरं संपिष्टकानन्तरं वोपवर्तनं गेयमिति पक्षान्तरम् । तद्वदेवेति । तत उपवर्तनादनन्तरं संधिर्नामाङ्गम् । तद्वत् ; उपवर्तनवदित्यर्थः । उपवर्तनं यथाक्षरेणोत्तरेण कृतं संधिरपि तेनैव कर्तव्यः । ततोऽपीति । संधेरप्यनन्तरं चतुरश्रकं नामाङ्गम् । युग्मप्रवृत्तवदिति । द्विकलचच्चत्पुटेनोट्टोक्तकलापूर्वकपातकलायुक्तेन कर्तव्यमित्यर्थः । तस्मादिति । तस्मात् ; चतुरश्रात् । वज्रं नामाङ्गम् । संधिवदिति । यथाक्षरेणोत्तरेण कर्तव्यमित्यर्थः । ततः वज्रानन्तरं संपिष्टकं नामाङ्गं कार्यम् । दश द्वादश वा कला इति संपिष्टकस्य वैकल्पिकः कलासंख्यानियमो दर्शितः । द्वादशाङ्गे दशकलं सप्ताङ्गे वितरन्मतमिति तयोः संपिष्टकभेदयोर्विषयव्यवस्था दर्शिता ।। १४७-१५१-॥
12
Scanned by Gitarth Ganga Research Institute