________________
संगीतरत्नाकरः संधिश्च चतुरनं स्याद्वजं संपिष्टकं ततः । वेणी तथा प्रवेणी स्यादुपपातस्ततः परम् ॥ १४४ ॥ अन्ताहरणमित्येतान्यङ्गानि द्वादशावदन् । संपिष्टकं तथा वेणी प्रवेणीमुपवर्तनम् ॥ १४५ ।। उपपातं विनान्यानि सप्ताङ्गानि च मेनिरे। यादृक् चतुष्कले वस्तु प्रागुक्तमपरान्तिके । तादृक्पादस्ततस्तद्वत्पतिपादः पदान्तरैः ।। १४७ ।। समं पादपदार्धेन पतिपादं परे जगुः ।
यथाक्षरोत्तरे शीर्ष केचिदाहुरतः परम् ।। १४८ ॥ द्वादशाङ्गानि, स्यात्पाद इत्यादिना परिगणितानि । सप्ताङ्गानीति । सप्ताङ्ग
ओवेणके संपिष्टकादिभ्योऽन्यानि पादप्रतिपादमाषघातसंधिचतुरश्रवज्रान्ताहरणाख्यानि मे निरे ।। १४३-१४५- ॥
(सु०) ओवेणकं लक्षयति---ओवेणकमिति । केचित् परे इममोवेणकं द्वादशङ्गं द्वादशभिरङ्गैर्युक्तम् , सपाङ्गम् ; सप्तभिरङ्युक्तं कार्यमिति वदन्ति । अवरं हीनमिति क्रमेण योजनीयम् | तान्येवाङ्गान्याह-स्यादिति । पाद:, प्रतिपादः, माषघात:, उपवर्तनम् , संधिः, चतुरश्रम् , वज्रम् , संपिष्टकम् , वेणी, प्रवेणी, उपपातः, अन्ताहरणं चेति द्वादशाङ्गानि अवदन् भरतादयः । संपिष्टकवेणीप्रवेण्युपवर्तनोपपातहीनान्येव सप्ताङ्गानि मेनिरे परे आचार्याः ॥ १४६॥
(क०) पदादीनां लक्षणमाह-यागित्यादि । चतुष्कले ; अपरान्तके, यादृग्वस्तु प्रागुक्तं चतुर्विशतिगुर्वात्मकं ताहगेवात्र पाद इत्युच्यते । ततः ; अनन्तरम् , तद्वत् ; पादवत , चतुर्विंशतिगुर्वात्मक इत्यर्थः । पदान्तरैः; पादप्रयुक्तपदेभ्योऽन्यैः पादैः प्रतिपादः कर्तव्यः । एतेन पादप्रतिपादयो
Scanned by Gitarth Ganga Research Institute