________________
पश्चमस्तालाध्यायः
शनिता माषघाते स्युर्द्वितीयाद्यास्त्रयः क्रमात् ॥ १६१ ॥ संपिष्टके निशम्यास्त्रिस्त्रितालो द्विः शतौ च सम् । अन्तो गीतिपदात्तियुक्तः सप्ताङ्गके मतः ॥ १६२ ॥
ओवेणके द्वादशाङ्गे तुल्यगीतिः पृथक्पदः । पादापपातसंपिष्टेषु विविधः कार्यः । वजे विविध एककं वा, उपवर्तने तु एककम् | चतुरश्रे विविधः, एककं वा । अथवा, कलाप्रयोगहीनम् एककं प्रयुज्य अवपाणिना गलप्रयोगेण अष्टासु कलासु विविध: कार्य: ॥ १५८-१६०-॥
(क०) कचित्पातकलाविशेषयोगं दर्शयति-शनिता माषघाते स्युरित्यादिना । माषघाते तावत् द्विकलोत्तरताल उक्तः । तस्य निप्रताशनितानिशताप्रनिसं तथोत्तर इति पातकलायोगोऽपि पूर्वमेवोक्तः । तदेकदेशापवादत्वेन शनिता इत्येतद्वचनं द्रष्टव्यम् । द्वितीयाद्यास्त्रय इति । द्वितीयतृतीयचतुर्थाः पूर्व प्रताशा उक्ताः । इह शनिताः कर्तव्या इति । संपिष्टके द्वादशकलापक्षे कलायोगं दर्शयति--संपिष्टक इति । निशम्यास्त्रित्रितालो द्विः शतौ च समिति । अन्तो गीतीत्यादि । गीतिपदावृत्तियुक्त इति । गीति यम् ; धातुरित्यर्थः । पदं वाचकम् ; शब्दरूपं मातुरित्यर्थः । तयोर्गीतिपदयोरावृत्त्या युक्तोऽन्तः सप्ताङ्गके प्रयोक्तव्यः । द्वादशाङ्गे तुल्यगीतिः पृथक्पद इति । अत्र मातोरेव पृथग्भावो न धातोरित्यर्थः ॥१६१-१६२-।।
(सु०) पातकलाविधिमाह-शनिता इति । माषघाते अङ्गे द्वितीयतृतीयचतुर्थकलासु शम्यानिष्कामताला योज्याः । संपिष्टके; प्रथमकलायां निष्क्राम: ; ततस्तिसृषु कलासु शम्या; ततस्त्रिषु ताल:; तत: द्वयोः शम्यातालौ; पुनरपि द्वयोः शम्यातालौ; अन्त्ये संनिपात इति । अन्त इति । साप्ताङ्ग ओवेणके गीतिपदावृत्तियुक्तः, अन्ते विविधः; द्वादशाङ्गे ल्यगीतिः पृथक्पदश्च कार्यः ॥ -१६१-१६२- ॥
Scanned by Gitarth Ganga Research Institute