________________
८४
संगीतरत्नाकरः
द्वितीयमात्रा तालान्ता प्रकर्या वस्तुनो मता ।
तुर्यायां द्वादशस्ताल: पञ्चम्यामष्टमस्तु शः ।। १३९ । या: षोडश कलाः प्रोक्ता द्विकले मद्रकेऽन्तिमाः । ताः षष्ठ्यामद्वितीयान्त्या मात्राः शम्यान्तिमा मताः ॥ १४० ॥
(सु० ) प्रकरीं लक्षयति - चतुष्कलानीति । प्रकर्यादीनि चत्वारीति । आदिना ओवेणकरोविन्दकोत्तराणां परिग्रहः । चतुष्कलानि चत्वारि षोडशकला प्रकरीमात्रा इति भरतादय: उदाहरन् अवादिषुः । सा प्रकरी चतुभिर्वस्तुभिः पः स्यात्; सार्धवस्तुत्रयेण वा । सार्धवस्तुत्रयपक्षे अन्त्यमर्धमादौ गेयम् । ततो वस्तुत्रयम्, वस्तुनि षण्मात्रा : कर्तव्याः । सार्धेति । यदा तु सार्धत्रिवस्तुका प्रकरी तदा वस्त्वर्धमुपोहनं कर्तव्यम् । चतुर्वस्तुपक्षे तु एकवस्तुमात्रमुपोहनम् | पक्षद्वयेऽपि प्रत्युपोहनं कर्तव्यं वा न वा । कर्तव्यपक्षे तु पूर्वोक्तलक्षणमेव । कनिष्ठेति । अत्र; प्रकर्याम् | कनिष्टासारितं संहरणं कार्यम् | आसारितं तु वक्ष्यते । अस्मिन् प्रकरीसंबन्धिनि संहरणे विदारीत्रयेण वृत्तं कर्तव्यम् । मतान्तरमाह — अन्त्यस्येति । अन्त्यस्य वस्तुनोऽन्तिमा मात्रा कैश्चिन्मुनिभिः संहरणमित्यभिधीयते । परे: अपरैः वस्तु सर्वासां मात्राणामन्ते सप्तमी मात्रा संहरणं स्मृतम् । वस्त्वर्धेष्विति । इह प्रकर्या वस्तूनामर्धेषु गीताख्यमङ्गं मद्रकस्थविविधवत्कर्तव्यम् ॥ १३४- १३८ ॥
(क० ) प्रकर्या वस्तुनः षट्सु मात्रासु पातकलायोगं दर्शयतिद्वितीयमात्रा तालान्ता इत्यारभ्य शेपस्थानेष्वानिमान्पादभागेषु निक्षिपेत् इत्यन्तेन । अत्र मात्रा तावत् षोडशकलात्मिका । तत्र द्वितीयमात्रा तालान्ता; तालाख्यपातान्ता । तुर्यायां मात्रायां द्वादश तृतीयपादभागान्तो गुरुस्तालः कर्तव्यः । पञ्चम्यां मात्रायामष्टमः । द्वितीयपादभागान्त्यो गुरुः । शः शम्याख्यः पातः कर्तव्यः । द्विकले मद्रके - sन्तिमा: याः षोडश कला इति । निशनिता, नितानिश, शताताश,
Scanned by Gitarth Ganga Research Institute