________________
८३
पश्चमस्तालाध्यायः पक्षान्तरे वस्तुमात्रं न वा स्यात्पत्युपोहनम् । कनिष्ठासारितं प्रोक्तमत्र संहरणं बुधैः ॥ १३६ ॥ वृत्तं च त्रिविदारीकमस्मिन्संहरणे मतम् । अन्त्यस्य त्वन्तिमा मात्रा कैश्चित्संहरणं मता ॥ १३७ ॥ अन्ते वा सप्तमी मात्रा परैः संहरणं स्मृता।
वस्त्वषैविह गीताङ्गविधिर्मद्रकवद्भवेत् ॥ १३८ । त्यनेन वचनेन वस्तुत्रयस्य आदौ कर्तव्यं स्यात् । प्रथमं वस्त्वधै गीत्वा पश्चाद्वस्तुत्रयं गायेदित्यर्थः । सार्वत्रिवस्तुपक्षे तु भवेदर्धमुपोहनमिति । वस्त्वर्धस्यादौ प्रयोगे प्रयोजनं दर्शितं भवति । पक्षान्तर इति । चतुर्वस्तुपक्ष इत्यर्थः । वस्तुमात्रमुपोहनं भवेत् । प्रत्युपोहनं न वा स्यादिति तस्यात्र वैकल्पिकं दर्शितम् । कनिष्ठासारितमित्यादि । अत्र; प्रकर्याम् । कनिष्ठासारितमेव संहरणं प्रोक्तमिति ।
" कनिष्ठासारिते युग्मः शम्यादिद्वावथोत्तरौ ।
एते यथाक्षरास्तेषां संनिपातोऽन्तिमोऽधिकः" । इति वक्ष्यमाणलक्षणं यत् कनिष्ठासारितं तदेवात्र प्रयुक्तं संहरणं नामाङ्गमुच्यत इत्यर्थः । वृत्तं वित्यादि । अस्मिन् ; संहरणे, त्रिविदारीकं वृत्तम् । मतमिति । " वृत्तं तिस्रश्चतस्रो वा पञ्च षड़ा विदारिकाः" इत्युक्तेषु वृत्तभेदेषु त्रिविदारीकमेवात्र कर्तव्यमित्यर्थः । अन्त्यस्य विति । अन्त्यस्य वस्तुनोऽन्तिमा षष्ठी मात्रा संहरणमिति केषांचिन्मतम् । अन्ते वेति । अन्त्यवस्तुनोऽन्ते नाशे ; अनन्तरमित्यर्थः । सप्तमी मात्रेति । अन्त्यवस्त्ववयवत्वेन मात्रान्तरं परिकल्प्यमित्यर्थः । वस्त्वषैवित्यादि । इह ; प्रकर्याम् । वस्त्वर्धेषु गीताङ्गविधिर्मद्रकवद्भवेदिति । पूर्वार्धेषु विविधः, उत्तरार्धेष्वेककं च कर्तव्यमित्यतिदेशतोऽवगन्तव्यम् ॥ १३४-१३८ ।
Scanned by Gitarth Ganga Research Institute