________________
संगीतरत्नाकरः चतुष्कलानि चत्वारि प्रकार्यादीन्युदाहरन् । प्रकरी स्याच्चतुर्वन्तु यद्वा सार्धत्रिवस्तुका ॥ १३४ ॥ तत्राधेमन्त्यमादो स्याद्वस्तु षण्मात्रमिष्यते ।। सार्धत्रिवस्तुपक्षे तु भवेदर्धमुपोहनम् ।। १३५ ।।
अयुग्मस्थितं यथा-षड्गुरून् लिखित्वा तदधो निशता प्रनिसान लिखेत् । अयुग्मप्रवृत्तं यथाक्षरेणोत्तरेण लिखेत् । अयुग्ममहाजनिकमयुग्मस्थितवल्लिखेत् । षडियो मिश्रान्तो यथा--तत्र युग्मस्थितप्रवृत्ते अग्युममहाजनिकं च पूर्वोक्तप्रकारेण लिखेत् ; इत्येको मिश्रः । अयुग्मस्य स्थितप्रवृत्ते युग्मस्य महाजनिकं च लिखेत ; इति द्वितीयो मिश्रः । युग्मस्य स्थितेऽयुग्मस्य प्रवृत्तमहाजनिके च लिखेत ; इति तृतीयो मिश्रः । अथायुग्मस्य स्थितं युग्मस्य प्रवृत्तमहाजनिके च लिखेत् ; इति चतुर्थो मिश्रः । युग्मस्य स्थितमयुग्मस्य प्रवृत्तं युग्मस्य महाजनिकं च लिखेत् ; इति पञ्चमो मिश्रः । अयुग्मभ्य स्थितं युग्मस्य प्रवृत्तमयुग्मस्य महाजनिकं च लिखेत ; इति षष्ठो मिश्रः । इति मिश्रान्तस्य षड्भेदाः । द्वयङ्गो वा स्थितप्रवृत्ताभ्यामेकाङ्गो महाजनिके द्रष्टव्यः ॥
इत्यन्तान्तमुल्लोप्यकम् ।
(क०) अथ प्रथमं तावत्प्रकर्यादीनां चतुर्णा सामान्यलक्षणमाहचतुष्कलानीत्यादि । प्रकर्यादीनि चत्वारीति । प्रकर्योवेणकरोविन्दकोत्तराणीत्यर्थः । चतुष्कलानि; चतुष्कलान्येव । एककलद्विकलाख्यभेदद्वयरहितानीत्यर्थः । उदाहरन् , आचार्या इति शेषः । प्रकरी लक्षयतिप्रकरी स्यादित्यादिना । तत्रामिति । तत्र सार्वत्रिवस्तुकायां प्रकर्यामन्त्यमर्धे न्यायतो वस्तुत्रयानन्तरप्रामत्वेनान्त्यवस्त्वर्धम् । आदौ स्यादि
Scanned by Gitarth Ganga Research Institute