________________
पश्चमस्तालाध्यायः
शेषस्थानेष्वानिविप्रान्पादभागेषु निक्षिपेत् । उपोहने कलापातान्न्यषेधन् दत्तिलादयः ॥ १४१ ॥ षष्ठी वा सप्तमी मात्रा यदा संहरणं तदा । कनिष्ठासारितकला विनान्त्यां परिकीर्तिता ॥ १४२ ।।
ताशतासमिति प्रोक्तास्ताः षष्ठयां मात्रायां कर्तव्याः । अद्वितीयान्त्या; द्वितीया षष्ठीव्यतिरिक्ता मात्राः प्रथमातृतीयाचतुर्थीपञ्चम्यः शम्यान्तिमाः, आसां षोडशो गुरुः शम्याख्यः पातः कर्तव्यः । शेपस्थानेष्विति । उक्तेभ्योऽन्येषु पादभागेप्वानिविप्रान् कुर्यात् । उपोहन इत्यादि । दत्तिलादयः, उपोहने कलापातान् न्यषेधन्निति । अत्र केचित्पक्षे ध्रुवपातमाहुरिति गम्यते । “ध्रुवपातमपातं वा” इति मद्रकोक्तन्यायस्य संचारात् । षष्ठी वेत्यादि । अन्त्यां विनेति । “ संनिपातोऽन्तिमोऽधिकः” इति कनिष्ठासारिते संनिपातात्मिकान्त्या कला वक्ष्यते ; तां विहायेत्यर्थः ॥ १३९-१४२ ॥
पातकलाविधिमाह-द्वितीयेति । प्रकरीसंबन्धिनो वस्तुनो द्वितीयमात्रा तालान्ता । अन्त्यकलायां तालपातो ज्ञातव्यः । तुर्यायां चतुर्थमात्रायां द्वादशस्ताल:, द्वादशी कला तालपातेन योज्या आ षष्ठवस्तुनः । पञ्चम्यां च मात्रायामष्टम: शम्याख्य: पात: कर्तव्यः । द्विकले या: पूर्व षोडश कलाः प्रोक्ताः निष्क्रामशम्यादयः, ताः षष्ठयां मात्रायां प्रयोज्याः। द्वितीयान्तिमामात्रावर्जितासु मात्रा शम्या अन्तिमा मात्राः अन्त्यकलायां शम्यापातेन योज्याः । उक्तादन्येषु स्थानेषु प्रतिपादभागेषु आवापनिष्क्रामविक्षेपप्रवेशा योज्याः । दत्तिलादयस्तु-उपोहने कलापाताः न्यषेधन् नाङ्गीकुर्वन्निति । षष्ठी वेति । यदा षष्ठी सप्तमी वा मात्रा संहरणमित्यङ्गीक्रियते, तदा अन्त्यां कलां विना कनिष्ठासारितस्य कला ज्ञातव्याः ॥ १३९-१४२ ॥
Scanned by Gitarth Ganga Research Institute