________________
पश्चमस्तालाध्यायः शताशतासमित्येककल उल्लोप्यके कलाः ॥ १२८ ॥ द्विकले स्युनिशनिता शतानिसमिति क्रमात् । चतुष्कले त्वानिविशास्तत आनिविताः क्रमात ॥ १२९ ।। भवन्त्याशविता आनिविसं मात्रा मताः कलाः । वैहायसे तु निविशानिवितानि शताशताः ।। १३० ॥ संनिपातश्चेति कलाः स्थिते नि: पञ्चमो भवेत् ।
शताशतासंनिपाताः प्रवृत्ते त्रिकलादनु ॥ १३१ ।। महाजनिकमिति । अङ्गद्वयेन सहितं कार्यम् । यदा अन्तः मिश्रः क्रियते, तदा महाजनिको हीनः । द्वयङ्ग इति । स्थितप्रवृत्ताभ्यां युक्तः कर्तव्यः । स्थितप्रवृत्तहीनोऽयमिति । यदा अयं महाजनिकः स्थितप्रवृत्तहीनः, तदा एकाङ्गश्च महाजनिकेनैव भवति ॥ १२४-१२७ ॥
(क०) अथैककलाद्युलोप्यकभेदानां पातकलायोगं दर्शयति-शताशतासमित्यादिना । स्थिते निः पञ्चमो भवेदिति । युग्मे द्विकलयुग्मेनति युग्मस्थिते द्विकलवच्चच्चत्पुट उक्तः । तस्य च 'निशौ नितासप्रनिसं द्विकले युग्मके मताः' इति पातकलायोगः पूर्वमेवोक्तः । तेन पञ्चमस्य गुरोः शम्यायां प्राप्तायां तदपवादत्वेन निष्कामोऽनेन विधीयते । पञ्चमादन्य पूर्वोक्ता एव ॥ १२८-१३०. ॥ ___ (सु०) कलाविधिमाह-शतेति । एककले उल्लोप्यके शम्यातालसंनिपाताः। द्विकले तु; निष्क्रामशम्यानिक्रामतालशम्यातालनिष्क्रामसंनिपाताः । चतुष्कले तु; आवापादयः षोडश आद्याक्षरैतिव्याः । वैहायसे तु; निष्कामादयः संनिपातान्ता द्वादश । स्थिते ; निष्क्रामः पञ्चमः । पञ्चमादन्याः कला: द्विकलचच्चत्पुटवत् तत्र प्रवृत्त: कलात्रयानन्तरं पञ्चसु कलासु शम्यातालशम्यातालसंनिपाता: ॥ १२८-१३०- ॥
(क०) त्रिकलादन्विति । प्रवृत्ते; 'उद्घट्टस्तु कलात्रय, आये'
Scanned by Gitarth Ganga Research Institute