________________
संगीतरनाकरः उयश्रे स्थिते चतुर्थः प्र इत्युल्लोप्ये कलाविधिः । वैहायसादिनियुक्तमथवा स्याच्चतुष्कलम् ॥ १३२ ॥ अन्तान्तमन्ताहरणप्रान्तं वैहायसान्तिमम् ।
मात्रामात्रमिति प्रोक्तं तच्चतुर्था पुरातनैः ॥ १३३ ॥ इत्युक्तत्वात् तदनन्तरे कलापश्चके शताशतासंनिपाताः कर्तव्या भवन्ति । व्यश्रे स्थिते चतुर्थः । इति । ज्यश्रे; चाचपुटे निशौ ताशौ निसमिति ज्ञेयाः ; चाचपुटे क्रमादित्युक्तत्वात् , चतुर्थे शम्यायां प्राप्तायां तदपवादत्वेन निष्क्रामोऽनेन विधीयते । चतुर्थादन्ये पूर्वोक्ता एव । हायसादिनियुक्तमित्यादि । अथवा इति पक्षान्तरप्रदर्शनम् । चतुष्कलमुल्लोप्यकं वैहायसादिनिर्युक्तम् । आदिशब्देन अन्तान्ताहरणान्तयोर्ग्रहणम् । वैहायसान्ताहरणान्तैर्वजितं भवतीत्यर्थः । अन्तान्तमित्यादि । तच्चोलोप्यमन्तान्तं कदाचिन्मात्रायाः समनन्तरं वैहायसे तदनन्तरमन्ताहरणे तदनन्तरमन्ते च प्रयुक्ते सत्यन्तान्तमुल्लोप्यं भवति । अन्ताहरणप्रान्तमिति । कदाचिन्मात्रावैहायसान्ताहरणेषु पूर्ववत्प्रयुक्तेप्वन्ताहरणान्तमुल्लोप्यं भवति । वैहायसान्तिममिति । कदाचिन्मात्रावैहासयोरेव प्रयुक्तयोवैहायसान्तिममुल्लोप्यं भवति । मात्रामात्रमिति । कदाचिन्मात्रायामेव प्रयुक्तायां मात्रामात्रमुल्लोप्यं भवति । वैहायसादिनिर्युक्तमित्यर्थः ; इति पुरातनः आचार्यैः चतुर्थोक्तम् ॥१३१-१३३॥
(सु०) आद्यकलात्रये तु द्विकलचच्चत्पुटोक्तः । तत्र स्थिते चतुर्थः प्रवेशः। अन्यत् द्विकलचाचपुटवत् । वैहायसादिभि: चतुष्कलमुल्लोप्यकं वैहायसान्ताहरणान्तहीनं कर्तव्यम् । अथवेति पक्षान्तरे । तत्; उल्लोप्यकमपि । कचित् अन्तान्तं भवति । क्वचित् अन्ताहरणप्रान्तं भवति । कदाचित् वैहायसान्तिम भवति । कदाचित् मात्रामात्रं भवतीति चत्वारः पक्षा: पुरातनः आचार्यैः वैकल्पिकत्वेन निर्दिष्टाः ॥ १३१-१३३ ॥
Scanned by Gitarth Ganga Research Institute