________________
७४
संगीतरनाकरः त्यर्थः । अयुगन्यतराङ्गमिति । युग्मानापेक्षया अयुग्मसंबन्धि महाजनिकादिकमङ्गं भवेदित्यर्थः । प्रथमभेदे युग्मस्य स्थितप्रवृत्ते ओजस्य महाजनिक कर्तव्यम् । द्वितीये मिश्रभेद ओजस्य स्थितप्रवृत्ते युग्मस्य महाजनिक च । तृतीये भेदे युग्मस्य स्थितमोजस्य प्रवृत्तमहाजनिके च । चतुर्थे भेद ओजस्य स्थितं युग्मस्य प्रवृत्तमहाजनिके च । पञ्चमे भेदे युग्मस्य स्थितमोजस्य प्रवृत्तं युग्मस्य महाजनिकं च । षष्ठे भेदे ओजस्य स्थितं युग्मम्य प्रवृत्तमोजस्य महाजनिकं चेति षट्सु भेदेषु लक्षणं यथायोगं योजनीयम् । प्रवृत्ताभ्यां प्रवृत्तेन युगयुग्मं परेऽबुवन् । महाजनिकम् इति । परे; आचार्याः । प्रवृत्ताभ्यामिति सहार्थे तृतीया। प्रवृत्ताभ्यां सहितं महाजनिकं प्रवृत्तेन सहितं महाजनिकं च । युगयुग्मम् ; युक् चायुग्मं चेति द्वन्द्वः । मिश्रमित्यर्थः । एवं मिश्रमतमब्रुवन् । पुनरन्तस्य द्वैविध्यमाहअन्तः स्यादिति । महाजनिकवर्जित इति । स्थितप्रवृत्ताभ्यामेव द्वयङ्गो भवतीत्यर्थः । स्थितप्रवृत्तिहीनोऽयमिति । महाजनिकैनैव एकाङ्गो भवतीत्यर्थः ॥ १२४-१२७- ॥
(सु०) मिश्रोऽन्न इति । युग्मम ; संकरागतम् । मिश्रोऽन्तः षडिधः । युग्मस्य स्थितप्रवृत्ते अयुग्मस्य महाजनिकमित्येकः । अयुग्मस्य स्थितप्रवृत्ते युग्मस्य महाजनिकमिति द्वितीयः । अयुग्मस्य स्थितं युग्मस्य प्रवृत्तं महाजनिकमिति तृतीयः । युग्मस्य स्थितम् अयुग्मस्य प्रवृत्तं महाजनिकमिति चतुर्थः । युग्मस्य स्थितं अयुग्मस्य प्रवृत्तं युग्मस्य महाजनिकमिति पञ्चमः । अयुग्मस्य स्थितं युग्मस्य प्रवृत्तम् अयुग्मस्य महाजनिकमिति षष्टः । एकमिति । अनुक्तानां विविधाद्यङ्गानाम् एषु स्थितप्रवृत्तमहाजनिकेषु एककं विविधो वा ग्राह्यः । पक्षान्तरमाह-विविधाभ्यामिति । अयुग्मस्यान्तस्य स्थितं विविधद्वयेन एककद्वयेन च युग्मलितं कार्यम् । अयुग्मस्य तु स्थितम् अन्यतराङ्गं स्यात् । विविधो वा, एककं वा तत्राङ्गत्वेन ग्राह्यमित्यर्थः । मतान्तरमाह-प्रवृत्ताभ्यामिति । तत्र युगयुग्मे प्रवृत्तद्वयेन अयुग्मम् एकेन प्रवृत्तेन कर्तव्यमित्याहुः ।
Scanned by Gitarth Ganga Research Institute