________________
पश्चमस्तालाध्यायः
७३
मित्रोऽन्तः षड़िधः प्रोक्तो युग्मायुग्माङ्गमिश्रणात् ॥ १२४ ॥ एककं विविधो वा स्यादनुक्ताङ्गस्थितादिषु । विविधाभ्यां वैककाभ्यां यद्वा युग्मस्थितं भवेत् ।। १२५ ।।
अयुगन्यतराङ्गं स्यात्मवृत्तं स्थितवन्मतम् । प्रवृत्ताभ्यां प्रवृत्तेन युगयुग्मं परेऽब्रुवन् ॥ १२६ ॥ महाजनिकमन्तः स्यादयङ्गमेकाङ्गकं परम् । यो यदा तदान्तः स्यान्महाजनिकवर्जितः ॥ १२७ ॥ स्थितप्रवृत्तहीनोऽयं यदैकाङ्गश्चिकीर्षितः ।
स्यात् । किंतु तत्कलाश्रय आये कलाचतुष्के उद्घट्ट: । अन्त्ये पूर्वपदानि गायेत् । आद्ये रागे विवधः; अन्त्ये एककानीति । पूर्वार्धस्थानां पदानामावृत्तिश्चेत् तदा प्रवृत्तं महाजनिकमिति भरतादयो विदुः । तन्महाजनिकं स्थितं विलम्बितस्थले लयो यस्य । अथवा स्थितस्य अङ्गस्य यस्ताल: तद्युक्तं कर्तव्यम् । गीताङ्गनियमो नास्ति । त्र्य इति । अयुग्मं चेत्, तदा चाचपुटतालेन द्विकलेन स्थितं भवेत् । यथाक्षरेण षट्पितापुत्रकेण प्रवृत्तं भवेत् । द्विकलेन चाचपुटेन महाजनिकं भवेत् । तदेव महाजनिकं युग्ममहाजनिकवत् कर्तव्यमित्यर्थः ॥ १२०-१२३- ॥
(०) मिश्रोऽन्त इत्यादि । युग्मायुग्माङ्गमिश्रणादिति । युग्माङ्गस्य अयुग्माङ्गस्य च मिश्रीकरणात् षड्विधो भवतीत्यर्थः । अनुक्ताङ्गस्थितादिविति । अनुक्तानि विविधाद्यङ्गानि येषां तानि अनुक्ताङ्गानि | तानि स्थितादीनि स्थितप्रवृत्तमहाजनिकानि तेषु । एककं वा विविध वा यथाकामं भवति । विविधाभ्यां वैककाभ्यां यद्वा युग्मस्थितं भवेत् । अयुगन्यतराङ्गं स्यात्ववृत्तं स्थितवन्मतम् इत्यत्र षडपि मिश्रभेदा द्रष्टव्याः । या विविघाभ्यां वैककाभ्यां वा उभयाद्वा युग्मस्थितं प्रथमं भवेत् । प्रवृत्तं स्थितवन्मतमिति । विविधाभ्यामेककाभ्यां वा युग्मप्रवृत्तं भवेदि -
10
Scanned by Gitarth Ganga Research Institute