________________ 42 न्यायबिन्दुः स्वभावप्रतिबन्धो लिङ्गस्य न वस्तुन इत्याह / वस्तुत इत्यादि। स साध्योऽर्थ आत्मा स्वभावो यस्य तत्तदात्मा तस्य भावस्ता. दात्म्यं तस्मादेतोर्यतः साध्यस्वभावं साधनं तस्मात्ततंत्र स्वभावपतिबद्धमित्यर्थः / यदि साध्यस्वभावं साधनं साध्यसाधनयोरभेदात्पतिज्ञार्थंकदेशो हेतुः स्यादित्याह वस्तुत इति। परमार्थसता रूपेणाभेदः / तयोर्विकल्पर्विषयस्तु यस्समारोपितं रूपं तदपेक्षः साध्यसाधनभेदः / निश्चयापेक्ष एव हि गम्यगमकभावः / ततो निश्चयारूढरूपापेक्ष एव तयोर्भेदो युक्तो वास्तवस्त्वभेद इति / न केवलं तादात्म्यादपि तु ततः साध्य दादुत्पत्तिर्लिङ्गस्य तदुत्पत्तेश्च साध्येऽर्थे स्वभावप्रतिवन्धो लिङ्गस्य / __ कस्मानिमित्तद्वयात्स्वभावप्रतिबन्धो लिङ्गस्य नान्यस्मा. दित्याहअतत्स्वभावस्यातदुत्पत्तेश्च तत्राप्रतिबद्धस्वभावत्वात् / स स्वभावोऽस्य सोऽयं तत्स्वभावः / न तत्स्वभावोऽतत्स्वभावः / तस्मादुत्पत्तिरस्य सोऽयं तदुत्पत्तिः न तथातदुत्पत्तिः / यो यत्स्वभावो यदुत्पत्तिश्च न भवति तस्यातत्स्वभावस्यातदुत्पे. तेश्च / तत्रातत्स्वभावेऽनुत्पादके चाप्रतिबद्धः स्वभावोऽस्येति सोऽयमप्रतिबद्धस्वभावस्तस्य भावोऽप्रतिबद्धस्वभावत्वं तस्मादप्रतिबद्धस्वभावत्वात् / यद्यतत्स्वभावेऽनुत्पादके च कश्चित्प्रति. बद्धस्वभावो भवेत् , भवेदन्यतोऽपि निमित्तात्स्वभावप्रतिबन्धः / १'न वस्तुनः' इति पाठो ख० पुस्तक पवोपलभ्यते / २'अर्थ आत्माइति पाठो ख० पुस्तके न विद्यते / 3 तादात्म्य, ख० तादात्म्यं तत्स्वभावत्वम् / 4 इदं पदं ख० पुस्तक एवोपलभ्यते / / 5 धर्मधर्मीसमुदायो प्रतिक्षा / तदेकदेशो धो धर्मी वा। 6 निश्चयापेक्ष एव, ख० निश्चयापेक्षया एवं। -7 लिङ्गस्य, ख० लिङ्गस्य स्यात् /