________________ प्रथमपरिच्छेदः . . 41 व्यभिचारस्तस्य नियमस्तदव्यभिचारनियमस्तस्योभावात् / अयमर्थः / न हि यो यत्र स्वभावेन ने प्रतिबद्धः स तमप्रतिबद्धविषयमवश्यमेव न व्यभिचरतीति नास्ति तयोरव्यभिचारनियमः। अविनाभावनियमः / अव्यभिचारनियमाच्च गम्यगमकभावः / नहि योग्यतया प्रदीपवत्परोक्षार्थप्रतिपत्तिीनमित्तमिष्टं लिङ्गम् / अपि त्वव्यभिचारित्वेन निश्चितम् / ततः स्वभावप्रतिवन्धे सत्यविनाभावनिश्चयः / ततो गम्यगमकभावः। तस्मात्स्वभावप्रति. बन्धे सत्यर्थोऽर्थगमेयनान्यथेति स्थितम् / ननु च परायत्तस्य प्रतिबन्धोऽपरायत्ते / तदिह साध्यसाध नयोः कस्य के प्रतिबन्ध इत्याहस च प्रतिबन्धः साध्येऽर्थे लिङ्गस्य वस्तुतस्ता ___ दात्म्यात्साध्यादुत्पत्तेश्च / स च स्वभावप्रतिबन्धो लिङ्गस्य साध्येऽर्थे / लिङ्गं परायत्तत्वात्पतिवद्धम् / साध्यस्त्वर्थोऽपरायत्तत्वात्मतिबन्धविषयो न प्रतिबद्ध इत्यर्थः / तत्रायमर्थस्तादात्म्याविशेषेऽपि यत्प्रतिबद्धं तद्गमकम् / यत्प्रतिबन्धविषयस्तद्गम्यम् / यस्य च धर्मस्य यानियतः स्वभावः स तत्प्रतिबद्धो यथा प्रयत्नानन्तरीयकत्वाख्योऽनित्यत्वे / यस्य तु स चान्यश्च स्वभावः स प्रतिवन्धविषयः / न तु प्रतिबद्धः / यथानित्यत्वाख्यः प्रयत्नानन्तरीयकत्वाख्ये / निश्चयापेक्षो हि गम्यगमकभावः / प्रयत्नानन्तरीयकत्वमेव चानिन्यस्वभावं निश्चितम् / अतस्तदेवानित्यत्वे प्रतिबद्धं, तस्मानियतविषय एवं गम्यगमकभावो नान्यथेति / कस्मात्पुनः 1 इदं पदं ख०पुस्तके न विद्यते। 2 अप्रतिबद्ध०ख०मप्रतिबंध। 3 अविनाभावनिश्चयः , ख० अविनाभावित्वनिश्चयः / 4 क, ख० कः / 5. अस्माकं सम्मतौ“वस्तुतः," अन्यत्र तुवस्सुनः' /