SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ 40. न्यायविन्दुः वव्यवहारश्चोक्तो द्रष्टव्यः / तदयमों हेतुः साध्यसिद्ध्यर्थत्वासाध्यागम् / साध्यं प्रधानम् / अतश्च साध्योपकरणस्य हेतोः प्रधानसाध्यभेदानेदो न स्वरूपभेदात् / साध्यश्च कश्चिद्विधिः कश्चित्प्रतिषेधः / विधिप्रतिषेधयोश्च परस्परपरिहारेणावस्थानात्तयोंहेतू भिन्नौ। विधिरपि कश्चिद्धतोभिन्नः कश्चिदभिन्नः / भेदाभेदयोरप्यन्योन्यत्यागेनात्मस्थितेभिनौ हेतू। ततः साध्यस्य परस्परविरोधाद्धेतवो भिन्ना न तु स्वत एवेति / / कस्मात्पुनस्रयाणां हेतुत्वं कस्माचान्येषामहेतुत्वमित्याशक्य यथा त्रयाणामेव हेतुत्वमन्येषां चाहेतुत्वं तदुभयं दर्शयितुमाह-- स्वभावप्रतिबन्धे हि सत्यर्थोऽथ गमयेत् / . स्वभावेन प्रतिबन्धः स्वभावप्रतिबन्धः / साधनं कृतेति समासः / स्वभावप्रतिबद्धत्वं प्रतिबद्धस्वभावत्वमित्यर्थः / का. रणे स्वभावे च साध्ये स्वभावेन प्रतिबन्धः कार्यस्वभावयोरविशिष्ट इत्येकेन समासेन द्वयोरपि संग्रहः / हिर्यस्मादर्थे / यस्मास्वभावप्रतिबन्धे सति साधनार्थः साध्यार्थ गमयेत्तस्मात्त्रयाणां गमकत्वमन्येषामगमकत्वम् / कस्मात्पुनःस्वभावप्रतिबन्ध एव सति गम्यगमकभात्रो नान्यथेत्याह-- तदप्रतिबद्धस्य तदव्यभिचारनियमाभावात् / तदिति स्वभाव उक्तः / तेन स्वभावेनाप्रतिबद्धस्तदप्रतिबद्धः / यो यत्र स्वभावेन न प्रतिबद्धस्तस्य तदप्रतिबद्धस्य त. दव्यभिचारनियमाभार्वेस्तस्याप्रतिवद्धविषयस्याव्यभिचारस्तद. 1 परस्पर, ख०परस्परम्। 2 हेतवः, ख० हेतवोऽपि / 3 कारणे, ख० कारण। .4 अभावः, ख० अभावात् / 5 अप्रतिबद्ध०, ख० अप्रतिबन्धः।
SR No.034224
Book TitleNyayabindu
Original Sutra AuthorN/A
AuthorDharmottaracharya
PublisherChaukhambha Sanskrit Granthmala
Publication Year1924
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy