________________ द्वितीयपरिच्छेदः यामेवानुच्चा शिंशपां पश्यति तामेवावृक्षमवस्यति / स मूढः शिंशपात्वमात्रनिमित्ते वृक्षव्यवहारे प्रवर्त्यते / नोचत्वादि निमित्तान्तरमिह वृक्षव्यवहारस्य / अपि तु शिंशपात्वमा निमित्तं शिंशपागतशाखादिमत्त्वं निमित्तमित्यर्थः / कार्यमुदाहर्तुमाह-- कार्य यथाग्निरत्र धूमादिति / अग्निरिति साध्यम् / अत्रेति धर्मी / धूमादिति हेतुः / कार्यकारणभावो लोके प्रत्यक्षानुपलम्भानिवन्धनः प्रतीत इति न स्वभावस्येव कार्यस्य लक्षणमुक्तम् / ननु त्रिरूपत्वादकमेव लिङ्गमयुक्तम् / अथ प्रकारभेदान्दः। एवं सति स्वभावहेतोरेकस्यानन्तप्रकारत्यानित्वमयुक्तमित्याह-- अत्र द्वौ वस्तसाधनौ। अत्रेति एषु त्रिषु हेतुषु मध्ये द्वौ हेतू वस्तुसाधनौ विधेः सधिनौ गमको। एकः प्रतिषेधहेतुः / एकः प्रतिषेधस्य हेतुर्गमकः / प्रतिषेध इति चाभीवोऽभा. १शिंशपां पश्यति, ख० पश्यति शिशपाम् / 2 अवृक्षं, क० अवृक्षत्वम् / 3 ख० पुस्तके 'स मूढः' इत्यस्यानन्तरं ''इति विरामः प्रयुक्तः। 4 अग्निरिति, क० वहिरिति / 5 प्रत्यक्षानुपलम्भनिबन्धनः, ख० प्रत्यक्षानुपलंभः निबन्धनम् / 6 'युक्तम्' इति पाठो क० पुस्तक एव विद्यते / सर्वत्रान्यत्र तु 'अयुक्तं' इत्येव पाठः / मुद्रितपुस्तकस्य सम्पादकेनापि 'अयुक्त' एव प्रयुक्तम् / अस्माकं सम्मतौ तु "अयुक्तं" अत्रायुक्तमेव / 7 अत्रेति एषु, ख० अत्रेति अत्र / .8 इदं पदं स्त्र पुस्तके न विद्यते। ९इदं पदं ख० पुस्तके न विद्यते /