SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ 38 न्यायविन्दुः / / अन्ये तूभयविकला इति / 4 / अनुपलब्धिमुदाहृत्य स्वभावमुदाहर्तुमाहस्वभावः स्वसत्तामात्रभाविनि साध्यधर्मे हेतुः / स्वभावो हेतुरिति सम्बन्धः। कीदृशो हेतुः साध्यस्यैवे स्वभाव इत्याह / स्वस्यात्मनः सत्ता सैव केवला. स्वसत्तामात्रम् / तस्मिन्सति भवितुं शीलं यस्येति / यो हेतोरात्मनः सत्तामपेक्ष्य विद्यमानो भवति न तु हेतुसत्ताया व्यतिरिक्त कश्चिद्धेतुमपेक्षते से स्वसत्तामात्रभावी साध्यः / तस्मिन्साध्ये यो हेतुः स स्वभावः / तस्य साध्यस्य नान्यः / उदाहरणम् यथा वृक्षोऽयं शिंशपात्वादिति / ___अयमिति धर्मी / वृक्ष इति साध्यम् / शिशपात्वादिति हेतुः / तदयमर्थो वृक्षव्यवहारयोग्योऽयं शिंशपाव्यवहारयोग्यत्वादिति / तत्र प्रचुरशिंशपे देशेऽविदितशिंशपाव्यवहारो जडो यदो केनचिदुचां शिंशपामुपदिश्र्योच्यते अयं वृक्ष इति तदासौ जाड्याच्छिशपाया उच्चत्वमपि वृक्षव्यवहारनिमित्तमवस्यति / तदा 1 ख० पुस्तकेऽत्राङ्काः न विद्यन्ते / 2 साध्यस्यैव स्वभाव, ख० साध्यस्य भावः / 3 इदं पदं क० पुस्तके नैवोपलभ्यते / 4 शिंशप०, क. प्रथमस्थाने "सिंसप" द्वितीयस्थाने च "शिशप" इति लिखति / द्वितीयपंक्तावप्यिदमेव, “प्रचुरसिंसपे" किन्तु "अविदितशिंशपा।" 5 यदा, ख० यथा / 6 उपादय, ख० उपदर्य / ७वृक्षव्यवहारनिमित्तं, ख० वृक्षव्यवहारस्य निमित्तम् /
SR No.034224
Book TitleNyayabindu
Original Sutra AuthorN/A
AuthorDharmottaracharya
PublisherChaukhambha Sanskrit Granthmala
Publication Year1924
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy