________________ प्रथमपरिच्छेदः उपलब्धिलक्षणप्राप्तिरुपलब्धिलक्षणप्राप्तत्वं घटस्य / उपलम्भप्रत्ययान्तरसाकल्यमिति / ज्ञानस्य घटोऽपि जनकः / अन्ये च चक्षुरादयः / घटादृश्यादन्ये हेतवः प्रत्ययान्तराणि / तेषां साकल्यं संनिधिः / स्वभाव एव विशिष्यते तदन्यस्मादिति विशेषो विशिष्ट इत्यर्थः / तदयं विशिष्टः स्वभावः प्रत्ययान्तरसाकल्यं चैतद्वयमुपलब्धिलक्षणप्राप्तत्वं घटादेष्टव्यम् / कीदृशः स्वभावविशेष इत्याह-- यः स्वभावः सत्स्वन्येषूपलम्भप्रत्ययेषु यत्प्रत्यक्ष ___ एव भवति स स्वभावः / सत्स्वित्यादि / उपलम्भस्य यानि घटादृश्यात्प्रत्ययान्तः राणि तेषु सत्सु विद्यमानेषु यः स्वभावः सन्प्रत्यक्ष एव भवति स स्वभावविशेषः / तदयमत्रार्थः / एकप्रतिपत्तपेक्षमिदं प्रत्यक्षलक्षणम् / तथा च सति द्रष्टुं प्रवृत्तस्यैकस्य द्रष्टुदृश्यमान उभयवान्भावः / 1 / अदृश्यमानास्तु देशकालस्वभावविप्रकृष्टाः स्वभावविशेषरहिताः प्रत्ययान्तरसाकल्यवन्तस्तु / यैर्हि प्रत्ययैः स द्रष्टा पश्यति ते संनिहिताः / अतश्च संनिहिताय द्रष्टुं प्रवृत्तः सः / 2 / द्रष्टुमप्रवृत्तस्य तु योग्यदेशस्था अपि द्रष्टुं ते न शक्याः / प्रत्ययान्तरवैकल्यवन्तः स्वभावविशेषयुक्तास्तु / 3 / दूरदेशकालास्तूभयविकलाः / 4 // तदेवं पश्यतः कस्यचित्र प्रत्ययान्तरविकलो नाम / 1 / स्वभावविशपविकलस्तु भवेत् / 2 / अपश्यतस्तु शक्यो द्रष्टुं योग्यदेशस्थः प्रत्ययान्तरविकलः 1 उपलम्भप्रत्ययान्तरसाकल्यस्वभावविशेषवान् / 2 क० पुस्तकस्य "आतश्च” इति पाठो ऽशुद्धोः प्रतीयते / ख. अतश्च सन्निहिता यद्रष्टुं प्रवृत्ताः (अशुद्धः) स। 3 पश्यतः कस्यचित् पुरुषस्य न प्रत्ययान्तरविकलत्वं भवति /