________________ न्यायविन्दुः सामग्री / तया बनुपलब्धिलक्ष्यते / तत्माप्तोऽर्थो जनकत्वेन सामग्रथन्तर्भावादुपलब्धिलक्षणप्राप्तो दृश्य इत्यर्थः / तस्यानु पलब्धेरित्ययं हेतुः / अथ यो यत्र नास्ति स कथं तत्र दृश्यः / दृश्यत्वसमारोपादसन्नपि दृश्य उच्यते। यश्चैवं संभाव्यते ययसावत्र भवेदृश्य एव भवेदिति स तत्राविद्यमानोऽपि दृश्य: समारोप्यः / कश्चैवं संभाव्यः / यस्य समग्राणि स्वालम्बनदर्शनकारिणानि भवन्ति / कदा च तानि समग्राणि गम्यन्ते / यदैकज्ञानसंसर्गिवस्त्वन्तरोपलम्भः / एकेन्द्रियज्ञानग्राह्य लोचनादि. प्रणिधानाभिमुखं वस्तुद्वयमन्योन्यापेक्षमेकज्ञानसंसर्गि कथ्यते / तयोहि सतो कनियता भवति प्रतिपत्तिः। योग्यताया द्वयोरप्यविशिष्टत्वात् / तस्मादेकज्ञानसंसर्गिणि दृश्यमाने सत्येकस्मित्रितरत्समग्रदर्शनसामग्रीकं यदि भवेश्यमेव भवेदिति संभा वितं दृश्यमारोप्यते। तस्यानुपलम्भो दृश्यानुपलम्भः / तस्मा स एव घटविविक्तप्रदेशस्तदालम्बनं च ज्ञानं दृश्यानुपलम्भनिश्चयहेतुत्वादृश्यानुपलम्भ उच्यते / यावद्धयेकज्ञानसंसर्गि वस्तु न निश्चितं तज्ज्ञानं च न तावश्यानुपलम्भनिश्चयः / ततो वस्त्वप्यनुपलम्भ उच्यते तज्ज्ञानं च / दर्शननिटीत्तमात्रं तु स्वयमनिश्चितत्वादगमकम् / ततो दृश्यघटरहितः प्रदेशस्त. ज्ज्ञानं च वचनसामर्थ्यादेव दृश्यानुपलम्भरूपमुक्तं द्रष्टव्यम् / का पुनरुपलब्धिलक्षणप्राप्तिरित्याह-- उपलब्धिलक्षणप्राप्तिरुपलम्भप्रत्ययान्तरसाकल्यं स्वभावविशेषश्व / 1 कथ्यते, ख० गम्यते / 2 दृश्यं, ख० दृश्यत्वम् / 3 घटविविक्त० , ख. घटादिविविक्त / 4 वस्तु न निश्चितं तज्ज्ञानं च, ख० वस्तु तज्ज्ञानं चा (अशुद्धः) न निश्चितम् / 5 ततो दृश्यघटरहितः, ख० ताशघटरहितः /