________________ प्रथमपरिच्छेदः सपक्षस्वभावाभावो न विज्ञातः / तस्मादन्यत्वविरुद्धत्वप्रतीति. सामर्थ्यात्सपक्षाभावरूपौ प्रतीतावन्यविरुद्धौ / ततोऽभावः साक्षा. सपक्षाभावरूपः प्रतीयते / अन्यविरुद्धौ तु सामर्थ्यादभावरूपौ . प्रतीयते / ततखयाणामप्यसपक्षत्वम् / त्रिरूपाणि च। उक्तेन त्रैरूप्येण त्रिरूपाणि च त्रीण्येव लिङ्गानीति चकारो वक्तव्यान्तरसमुच्चयार्थः / त्रैरूप्यमादौ पृष्टं त्रिरूपाणि च लिङ्गानि परेण। तत्र त्रैरूप्यमुक्तम् / त्रिरूपाणि चोच्यन्ते / . त्रीण्येव च लिङ्गानि त्रीण्येव त्रिरूपाणि लिङ्गानि / त्रयस्त्रिरूपलिङ्गप्रकारा इत्यर्थः / कानि पुनस्तानीत्याह- . अनुपलब्धिः स्वभावकार्ये चेति / प्रतिषेध्यस्य साध्यस्यानुपलब्धिस्त्रिरूपा / विधेयस्य साध्यस्य स्वभावस्त्रिरूपः / कार्य च। अनुपलब्धिमुदाहर्तुमाह-- तत्रानुपलब्धिर्यथा न प्रदेशविशेषे क्वचिद्घट . __ उपलब्धिलक्षणप्राप्तस्यानुपलब्धेरिति / यथेत्यादि / यथेत्युपप्रदर्शनार्थम् / यथेयमनुपलब्धिस्तथान्यापि / न त्वियमेवेत्यर्थः / प्रदेश एकदेशः। विशिष्यत इति विशेषः प्रतिमत्तृप्रत्यक्षः / तादृशश्च न सर्वः प्रदेशः। तदाह क्वचिदिति / प्रतिपतृप्रत्यक्षे क्वचिदेव प्रदेश इति धर्मी / न घट इति साध्यम् / उपलब्धिर्ज्ञानम् / तस्या लक्षणं जनिका / 1 उपलब्धिानम् / तस्या लक्षणं जनिका सामग्री, कल उपल विधवानं तस्य लक्षणं / जानका सामग्री। -