SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ न्यायबिन्दुः / नुमेय इति दर्शयितुमत्रग्रहणम् / जिज्ञासितो ज्ञातुमिष्टो विशेषो धर्मो यस्य धर्मिणः स तथोक्तः / __का सपक्षः... साध्यधर्मसामान्येन समानोऽर्थः सपक्षः / समानोऽर्थः सपक्षः / समानः सदृशो योऽर्थः पक्षेण से सपक्ष उक्त उपचारात् / समानशब्देन विशेष्यते / समानः पक्ष: सपक्षः / समानस्य च सशब्दादेशः / स्यादेतत् / किं तत्पक्षसपक्षयोः सामान्यं येन समानः सपक्षः पक्षणेत्याह / साध्यधर्मसामान्येनेति / साध्यश्वासावसिद्धत्वाद्धर्मश्च पराश्रितत्वात्साध्यधर्मः / न च विशेषः साध्यः / अपि तु सामान्यम् / अत इह सामान्यं साध्यमुक्तम् / साध्य धर्मश्चासौ सामान्यं चेति साध्य. धर्मसामान्येन समानः पक्षण सपक्षः इत्यर्थः / कोऽसपक्ष इत्याह- . न सपक्षोऽसपक्षः। न सपक्षो ऽसपक्षः / सपक्षो यो न भवति सोऽसपक्षः / कश्च सपक्षो न भवति - ततोऽन्यस्तद्विरुद्धस्तदभावश्चेति / ततः सपक्षादन्यः / तेन च विरुद्धः / तस्य च सपक्षस्याभावः / सपक्षादन्यत्वं तद्विरुद्धत्वं च न तावत्प्रत्येतुं शक्यं याव १'यत्र यत्र धूमस्तत्र तत्र वह्निः, यत्र वह्निनास्ति तत्र धूमोऽपि नास्ति' इति व्याप्ती धूमसद्भावेऽग्निसद्भावो साध्यः / धूमोऽत्र वढेधमोऽस्ति / स एवात्र साध्यः। अत एव व्याप्तिनिश्चयकाले धर्मोज्नुमेयः। २इदं पदं क० पुस्तके न विद्यते। 3 सामान्यम् ,ख० साम्यम् / , 4 "च" इति पदं स्व. पुस्तके न विद्यते / .. 5 तद्विरुद्धत्वं, ख० च विरुद्धत्वम् /
SR No.034224
Book TitleNyayabindu
Original Sutra AuthorN/A
AuthorDharmottaracharya
PublisherChaukhambha Sanskrit Granthmala
Publication Year1924
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy