SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ प्रथमपरिच्छेदः 33 यकत्वं सपक्षेऽपि सर्वत्र नास्ति / ततो न हेतुः स्यात् / ततः पूर्व न कृतम् / निश्चितग्रहणेन संदिग्धविपक्षव्यावृत्तिकोऽनैकान्तिको निरस्तः / ननु च सपक्ष एव सत्चमित्युक्ते विपक्षेऽसत्त्वमेवेति गम्यत एव / तत्किमर्थं पुनरुभयोरुपादनं कृतम् / तदुच्यते / अन्वयो व्यतिरेको वा नियमवानेव प्रयोक्तव्यो नान्यथेति दर्शयितुं द्वयोरप्युपादानं कृतम् / अनियमे हि द्वयोरपि प्रयोगेऽयमर्थः स्यात् / सपक्षे योऽस्ति विपक्षे च नास्ति स हेतुरिति / तथा च सति स श्यामस्तत्पुत्रत्वादृश्यमानपुत्रवदिति तत्पुत्रत्वं हेतुः स्यात् / तस्मानियमवतोरेवान्वयव्यतिरेकयोः प्रयोगः कर्त्तव्यः / येन प्रतिबन्धो गम्येत साधनस्य साध्येन नियमवतोश्च प्रयोगेऽवश्यकर्तव्ये द्वयोरेक एव प्रयोक्तव्यो न द्वाविति नियमवानेवान्वयो व्यतिरेको वा प्रयोक्तव्य इति शिक्षणार्थ द्वयोरुपादनमिति / - त्रैरूप्यकथनप्रसङ्गेनानुमेयः सपक्षो विपक्षश्वोक्तः / तेषां लक्षणं वक्तव्यम् , तत्र कोऽनुमेय इत्याह अनुमेयोऽत्र जिज्ञासितविशेषो धर्मी / अत्र हेतुलक्षणे निश्चेतव्ये धर्म्यनुमेयः / अन्यत्र तु साध्यप्रतिपत्तिकाले समुदायोऽनुमेयः / व्याप्तिनिश्चयकाले तु धर्मोऽ 1 इदं पदं ख० पुस्तके नैवोपलभ्यते। 2 तदुच्यते, ख० उच्यते / 3 'अपि' इति पदं खः पुस्तके नैवोपलभ्यते / 4 अनियमे, ख० नियते। 5 प्रयोक्तव्यः, क० कर्तव्यः / 6 स्वार्थानुमानलक्षणे। ___7 पर्वतोऽयमग्निमान्धूमवत्त्वात्' इत्यास्मिन्ननुमाने धूमलक्षणोधर्मी वह्निरनुमेयः साध्यत्वात् / / 8 'शब्दो नित्यः कृतकत्वात्' इत्यस्मिन्ननुमाने शब्दे नित्यत्वं सा. ध्यते / अत एवात्र 'शब्दो नित्यः' इति समुदायोऽनुमेयः साध्यत्वात्।
SR No.034224
Book TitleNyayabindu
Original Sutra AuthorN/A
AuthorDharmottaracharya
PublisherChaukhambha Sanskrit Granthmala
Publication Year1924
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy