SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ न्यायविन्दुः. यत्वात् / स हि न सपक्ष एवं वर्तते किं तूभयत्रापि / सत्त्वग्रहणात्पूर्वावधारणवचनेन सपक्षच्यापिसत्ताकस्यापि प्रयत्नानन्त. रीयकस्य हेतुत्वं कथितम् / पश्चादवधारणे त्वयमर्थः स्यात् / सपक्षे सत्त्वमेव यस्य स हेतुरिति प्रयत्नानन्तरीयकत्वं न हेतुः स्यात् / निश्चितवचनेन संदिग्धान्वयोऽनैकान्तिको निरस्तः। यथा सर्वज्ञः कश्चिद्वक्तृत्वात् / वक्तृत्वं हि सपक्षे सर्वज्ञे संदिग्धम् / असपक्षे चासत्त्वमेव निश्चितम् / / असपक्षो वक्ष्यमाणलक्षणः / तस्मिन्नसत्त्वमेव निश्चितं तृतीय रूपम् / तत्रासत्वग्रहणेन विरुद्धस्य निरासः / विरुद्धो हि विपक्षेऽस्ति / एवकारेण साधारणस्य विपक्षैकदेशवृत्तेनिरासः / निर्त्यः शब्दः कृतकत्वात् खंवत् / प्रयत्नानन्तरीयकत्वे साध्ये ह्यनित्यत्वं विपक्षकदेशे विद्युदादावस्त्याकाशादौ नास्ति / ततो नियमेनास्य निरासः। असत्त्ववचनात्पूर्वस्मिन्नवधारणेऽयमर्थः स्यात् / विपक्ष एव यो नास्ति स हेतु / तथा च प्रयत्नानन्तरी 1 वाक्यमिदं ख० पुस्तक एवोपलभ्यते / 2 साधारणानकान्तिकः। 3 पक्षे सपक्षे च / 4 क० पुस्तके 'सपक्षव्यापिसत्ताकस्य' इत्यस्य स्थाने 'सपक्ष ऽव्यापिसत्ताकस्य' इति पाठो विद्यते / यच्च मुद्रितपुस्तकस्य सम्पादकस्य सम्मतौ "सपक्ष" इत्यस्य “सपक्षा" इति संस्कृतरूपोऽस्ति / अस्माकं सम्मतौ तु ''इति चिह्नो ऽसावधानतयैव केनचिल्लेखकेन प्रयुक्तः। 5 तु. क. हि / 6 निश्चितवचनेन, क० निश्चयवचनेन / 7 यद्यत्त्यमरकोशे “सर्वशो सुगतो बुद्धो” इत्येवमादि लिखितमस्ति, तथापि प्रत्यक्षानुमानप्रमाणवादिनस्ते बौद्धाः न कश्चित्सर्व. शमामनन्ति / 8 बाक्यमिदं ख० पुस्तक एवोपलभ्यते। 9 आकाशयत् / 10 असत्त्ववचनात् ,ख० असत्त्वशब्दात् /
SR No.034224
Book TitleNyayabindu
Original Sutra AuthorN/A
AuthorDharmottaracharya
PublisherChaukhambha Sanskrit Granthmala
Publication Year1924
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy