________________ द्वितीयपरिच्छेदः किंपुनस्तत्ररूप्यामित्याह-- लिङ्गस्यानुमेये सत्त्वमेव / अनुमेयं वक्ष्यमाणलक्षणम् / तस्मिंल्लिङ्गस्य सत्त्वमेव निश्चितमेकं रूपम् / यद्यपि चात्र निश्चितग्रहणं न कृतं तथाप्यन्ते कृतं प्रक्रान्तयोयोरपि रूपयोरपेक्षणीयम् / यतो न योग्यतया लिङ्गं परोक्षज्ञानस्य निमित्तम्। यथा बीजमङ्कुरस्य / अदृष्टाळूमादग्नरप्रतिपत्तेः / नापि स्वविषयज्ञानापेक्षं परोक्षार्थप्रकाशन. म् / यथा प्रदीपो घटादेः / दृष्टादप्यानश्चितसम्बन्धादप्रतिपत्तेः। तस्मात्परोक्षार्थनान्तरीयकतया निश्चयनमेव लिङ्गस्य परोक्षार्थप्रतिपादनव्यापारः। नापरः कश्चित् / अतोऽन्वयव्यतिरेकपक्षधर्मत्वनिश्चयो लिङ्गव्यापारात्मकत्वादवश्यकत्र्तव्य इति सर्वेषु रूपेषु निश्चितग्रहणमपेक्षणीयम् / तत्र सत्त्ववचनेनासिद्धं चाक्षुषत्वादि निरस्तम् / एवकारेण पक्षैकदेशॉसिद्धः निरस्तो हेतुः / यथा चेतनास्तरवः स्वापादिति।पक्षीकृतेषु तरुषु पत्रसंकोचलक्षणः स्वाप एकदेशेन सिद्धः। न हि सर्वे वृक्षा रात्रौ पत्रसंकोचभाजः। किं तु कोचदेव / सत्ववचनस्य पश्चात्कृतेनैवकारेणासाधारणो धर्मो निरस्तः / यदि हनुमेय एव सत्त्वमिति कुर्याच्छ्रावणत्वमेव हेतुः स्यात् / निश्चितग्रहणेन संदिग्धासिद्धः सर्वो निरस्तः / ___.. सपक्ष एव सत्त्वम् / / सपक्षो वक्ष्यमाणलक्षणः / तस्मिन्नेव सत्त्वं निश्चितं द्वितीयं रूपम् / इहापि सत्त्वग्रहणेन विरुद्धो निरस्तः / से हि नास्ति सपक्षे / एवकारेण साधारणानकान्तिकः / अनित्यः शब्दः प्रमे१ "तत्" इति पदं क० पुस्तके नैवोपलभ्यते / 2 निरस्तम् ,ख० निषिद्धम् / 3 "निरस्तो हेतुः" इति पाठः ख• पुस्तक एव विद्यते / 4 कुर्यात् , ख० ब्रूयात् / 5 विरुद्धः।