________________ न्यायविन्दुः त्रिरूपाल्लिङ्गाधज्जातं ज्ञानमिति / एतद्धतुद्वारण विशेषणम् / तत्रिरूपाच लिङ्गात्तिरूपलिङ्गालम्बनमप्युत्पद्यत इति विशिनष्टि / अनुमेय इति / एतच्च विषयद्वारेण विशेषणम् / त्रिरूपाल्लिङ्गाधदुत्पन्नमनुमेयालम्बनं ज्ञानं तत्स्वार्थमनुमानमिति / लक्षणविप्रतिपत्तिं निराकृत्य फलविप्रतिपत्तिं निराकर्तुमाह-- प्रमाणफलव्यवस्थात्रापि प्रत्यक्षवत् / . प्रमाणस्य यत्फलं तस्य या व्यवस्थात्रानुमानेऽपि प्रत्यक्षवत्प्रत्यक्ष इव वेदितव्या / यथा हि नीलसरूपं प्रत्यक्षमनुभूयमानं नीलबोधरूपमवस्थाप्यते / तेन नीलसारूप्यं व्यवस्थापनहेतुः प्रमाणम् / नीलबोधरूपं तु व्यवस्थाप्यमानं प्रमाणफलम् / तद्वदनुमानं नीलाकारमुत्पद्यमानं नीलबोधरूपमवस्थाप्यते / तेन नीलसारूप्यमस्य प्रमाणम् / नीलविकल्पनरूपं त्वस्य प्रमाणफ. लम् / सारूप्यवशाद्धि तन्नीलप्रतीतिरूपं सिध्यति / नान्यथेति / एवमिह संख्यालक्षणफलाविप्रतिपत्तयः / प्रत्यक्षपरिच्छेदे तु गोचरविप्रतिपत्तिनिराकृता / लक्षणनिर्देशप्रसङ्गेन तु त्रिरूपं लिङ्गं प्रस्तुतम् / तदेव व्याख्यातुमाह-- त्रैरूप्यम् पुनः। लिङ्गस्य यश्वरूप्यं यानि त्रीणि रूपाणि तदिदमुच्यत इति शेषः। 1 प्रत्यक्षवत्प्रत्यक्ष इव / लिखितपुस्तकयोः प्रत्यक्ष इव प्रत्यक्षवत्। सम्भवतोऽनावश्यकतयायं पाठः न संस्कृतः। 2 पदमिदं ख० पुस्तके न विद्यते / 3 यद्यपि सूत्रमिदमपरिपूर्णमिवावलोक्यते, तथापि नात्र द्वितीयं सूत्रं स्थापयितुं शक्नुमस्तावमात्रस्यैव त्रैरूप्यत्वाभावात् /