SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ अथ द्वितीयपरिच्छेदः / एवं प्रत्यक्ष व्याख्यायानुमानं व्याख्यातुमाह अनुमानं द्विधा। द्विप्रकारकम् / अथानुमानलक्षणे वक्तव्ये किमकस्मात्प्रकारभेदः कथ्यते / उच्यते / परार्थानुमानं शब्दात्मकं स्वार्थानुमान तु ज्ञानात्मकम् / तयोरत्यन्तभेदान्नकं लक्षणमस्ति / ततस्तयोः प्रतिनियतं लक्षणमाख्यातुं प्रकारभेदः कथ्यते / प्रकारभेदो हि व्यक्तिभेदः / व्यक्तिभेदे च कथिते प्रतिव्यक्तिनियतं लक्षणं शक्यते वक्तुम् / नान्यथा / ततो लक्षणनिर्देशाङ्गमेव प्रकारभेदकथनम् / अशक्यतां च प्रकारभेदकथनमन्तरेण लक्षणनिर्देशस्य ज्ञात्वा प्राक्प्रकारभेदः कथ्यत इति / किं पुनस्तदैविध्यामित्याह-- स्वार्थ परार्थं च / स्वस्मायिद स्वार्थम् / येन स्वयं प्रतिपद्यते तत्स्वार्थम् / परस्मायिदं परार्थम् / येन परं प्रतिपादयति तत्परार्थम् / / तत्र स्वार्थं त्रिरूपाल्लिङ्गाद्यदनुमेये ज्ञानं तदनुमानम् / ___ तत्र तयोः स्वार्थपरार्थानुमानयोर्मध्ये स्वार्थ ज्ञानं किंविशिटमित्याह-त्रिरूपादिति / त्रीणि रूपाणि यस्य वक्ष्यमाणलक्षणा. नि तत्रिरूपम् / लिङ्यते गम्यतेऽनेनार्थ इति लिङ्गम् / तस्मा 1 व्याख्यातुकामः / 4 कथयितुम् / 2 विभिन्नत्वात् / ५निर्देशार्थमेव / 3 निश्चितम् /
SR No.034224
Book TitleNyayabindu
Original Sutra AuthorN/A
AuthorDharmottaracharya
PublisherChaukhambha Sanskrit Granthmala
Publication Year1924
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy