________________ 27 प्रथमपरिच्छेदः झानस्येति चेदुच्यते / सदृशमनुभूयमानं तद्विज्ञानम् / यतो नीलस्य ग्राहकमवस्थाप्यते निश्चयप्रत्ययेन / तस्मात्सारूप्यमनुभूतं व्यवस्थापनहेतुः / निश्चयप्रत्ययेन च तज्ज्ञानं नीलसंवेदनमव. स्थाप्यमानं व्यवस्थाप्यम् / तस्मादसारूप्यव्यावृत्या सारूप्यं ज्ञानस्य व्यवस्थापनहेतुः / अनीलवोधव्याच्या च नीलबोधरूपत्वं व्यवस्थाप्यम् / व्यवस्थापकश्च विकल्पप्रत्ययः प्रत्यक्षबलोत्पन्नो द्रष्टव्यः। ननु निर्विकल्पकत्वात्प्रत्यक्षमेव नीलबोधरूपत्वेनात्मानमव. स्थापयितुं शक्नोति / निश्चयप्रत्ययेनाव्यवस्थापितं सदपि नील. बोधरूपं विज्ञानमसत्कल्पमेव / तस्मानिश्चयेन नीलबोधरूपं व्यवस्थापितं विज्ञानं नीलबोधात्मना सद्भवति / तस्मादध्यवसायं कुर्वदेव प्रत्यक्षं प्रमाणं भवति / अकृते त्वध्यवसाये नीलबोधरूपत्वनाव्यवस्थापितं भवति विज्ञानम् / तथा च प्रमाणफल. मर्थाधिगमरूपत्वमनिष्पन्नम् / अतः साधकतमत्वाभावात्प्रमा. णमेव न स्याज्ज्ञानम् / जनितेन त्वध्यवसायेन सारूप्यवशात्रीलबोधरूपे ज्ञानेऽवस्थाप्यमाने सारूप्यं व्यवस्थापनहेतुत्वात्यमाणं सिद्धं भवति / यद्येवमध्यवसायसहितमेव प्रत्यक्ष प्रमाणं स्यान केवलमिति चेत् / नैतदेवम् / यस्मात्प्रत्यक्षबलोत्पनेनाध्यवसायेन दृष्टत्वेनाऽर्थोऽवसीयते नोत्प्रेक्षितत्वेन / दर्शनं चार्थसाक्षात्करणाख्यं प्रत्यक्षन्यापारः / उत्प्रेक्षणं तु विकल्पव्यापारः / 1 'इति' इति पदं ख० पुस्तक एवोपलभ्यते / 2 रूपत्वं, स्व० रूपम् / 3 अवस्थाप्यमाने, ख० व्यवस्थाप्यमाने / 4 दर्शनं, ख० अदर्शनं ( 0 त्वेनादर्शनं ) / 5 'तु' इति पाठो ख० पुस्तके नैवोपलभ्यते।