SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ न्यायविन्दुः यस्माद्विषयाज्ज्ञांनमुदेति तद्विषयसदृशं तद्भवति / यथा नीलादुत्पद्यमानं नीलसदृशम् / तञ्च सारूप्यं सादृश्यमाकार इत्याभास इत्यपि व्यपदिश्यते / .. ननु च ज्ञानादव्यतिरिक्तं सादृश्यम् / तथा च सति तदेव ज्ञानं प्रमाणम् / तदेव प्रमाणफलम् / न चैकं वस्तु साध्यं सा. धनं चोपपद्यते / तत्कथं सारूप्यप्रमाणमित्याह तहशादर्थप्रतीतिसिद्धेरिति / तदिति सारूप्यं तस्य वशात्सारूप्यसामर्थ्यात् / अर्थस्य प्रतीतिरववोधस्तस्याः सिद्धिः / तत्सिद्धेः कारणात् / अर्थस्य प्रतीतिरूपं प्रत्यक्षं विज्ञानं सारूप्यवशासिध्यति प्रतीतं भवतीत्यर्थः / नीलनिर्भासं हि विज्ञानं यतस्तस्मानीलस्य प्रतीतिरवसीयते / येभ्यो हि चक्षुरादिभ्यो विज्ञानमुत्पद्यते न तद्वशातज्ज्ञानं नीलस्य संवेदनं शक्यतेऽवस्थापयितुम् / नीलसदृशं त्वनुभूयमानं नीलस्य संवेदनमवस्थाप्यते / न चात्र जन्यजनकभावनिबन्धनः साध्यसाधनभावः येनैकस्मिन्वस्तुनि विरोधः स्यात् / अपि तु व्यवस्थाप्यव्यवस्थापकभावेन / तत एकस्य वस्तुनः किंचिद्रूपं प्रमाणं किंचित्प्रमाणफलं न विरुध्यते / व्यवस्थापनहेतुर्हि सारूप्यम् / तस्य ज्ञानस्य व्यवस्थाप्यं च नील. संवेदनरूपम् / व्यवस्थाप्यव्यवस्थापकभावोऽपि कथमेकस्य 1 ज्ञानं, ख. विज्ञानम् / 2 विज्ञानमर्थजानतमर्थाकारमर्थस्य च ग्राहकमिति यदुक्तं पुरस्तादस्माभिः / 3 'सारूप्यम्' इति पदं ख० पुस्तक एवोपलभ्यते / 4 कथ्यते। 5 तत्सिद्धः, ख० ततः सिद्धेः। 6 विज्ञानम् , ख० शानम् / 7 यत्र त्वेकस्मिन्नेव वस्तुनि जन्यजनकभावनिबन्धनः साध्यसाधनभावो भवति तत्र विरोध आपद्यते। अत्र तु व्यवस्थाप्यव्यवस्था पकभावोऽस्ति / अत एवात्र न कश्चिदिरोगा।
SR No.034224
Book TitleNyayabindu
Original Sutra AuthorN/A
AuthorDharmottaracharya
PublisherChaukhambha Sanskrit Granthmala
Publication Year1924
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy