________________ प्रथमपरिच्छेदःसच्चानुमानस्य ग्राह्यं दर्शयितुमाह-- सोऽनुमानस्य विषयः / . सोऽनुमानस्य विषयो ग्राह्यरूपः / सर्वनाम्नोऽभिधेयवल्लिङ्ग परिग्रहः / सामान्यलक्षणम् / अनुमानस्य विषयं व्याख्यातुकामेनायं स्वलक्षणस्वरूपाख्यानग्रन्थ आवर्तनीयः स्यात् / ततो लाघवार्थ प्रत्यक्षपरिच्छेद एवानुमानविषय उक्तः / विषयावप्रतिपतिं निराकृत्य फलविप्रतिपत्तिं निराकर्तुमाह-- तदेव च प्रत्यक्ष ज्ञानं प्रमाणफलमर्थप्रतीतिरूपत्वात् / यदेवानन्तरमुक्तं प्रत्यक्षं तदेव प्रमाणस्य फलम् / कथं प्रमाणफलमित्याह / अर्थस्य प्रतीतिरवर्गमः / सैव रूपं यस्य प्रत्यक्षज्ञानस्य तदर्थप्रतीतिरूपम् / तस्य भावः। तस्मादेतदुक्तं भवति / प्रापकं ज्ञानं प्रमाणं / प्रापणशक्तिश्च न केवलादर्थाविनाभावित्वाद्भवति / बीजाद्यविनाभाविनोप्यरादेरमापकत्वात् / तस्मादादुत्पत्तावप्यस्य ज्ञानस्यास्ति कश्चिदवश्यकर्त्तव्यः मापकव्यापारः / येन कृतेनार्थः प्रापितो भवति / स एव च प्रमागफलम् / यदनुष्ठानात्तापकं भवति ज्ञानम् / उक्तं च पुरस्ता. प्रवृतिविषयप्रदर्शनमेव मापकस्य प्रापकव्यापारो नाम / तदेव च प्रत्यक्षमर्थप्रतीतिरूपमर्थदर्शनरूपम् / अतस्तदेव प्रमाणफलम् / / यदि तर्हि ज्ञानं प्रमितिरूपत्वात्प्रमाणफलं किं तर्हि प्रमाणमित्याह अर्थसारूप्यमस्य प्रमाणं / अर्थेन सह यत्सारूप्यं सादृश्यमस्य ज्ञानस्य तत्प्रमाणमिह / १पुनः कथनीयः स्यात् / 3 अवगमो शानम् / .. 2 अर्थात् , ख० प्राथादर्थात् / . 3 अर्थदर्शन०, ख० अर्थप्रदर्शन। ४सादृश्यम् , ख० यत्साहश्यम् / .