SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ * न्यायविन्दुः उपादेयश्चोपादातुम् / अर्थस्य प्रयोजनस्य क्रिया निष्पत्तिस्तस्या सामर्थ्य शक्तिस्तदेव लक्षणं रूपं यस्य वस्तुनस्तदक्रियासाम. Wलक्षणम् / तस्य भावः / तस्माद्वस्तु शब्दः परमार्थसत्पर्यायः / तदयमर्थो यस्मादर्थक्रियासमर्थ परमार्थसदुच्यते सनिधानासन्निधानाभ्यां च ज्ञानप्रतिमासस्य भेदकोऽर्थोऽर्थक्रियासमा र्थः / तस्मात्स एव परमार्थसत् / तत एव हि प्रत्यक्षविषयादर्थक्रिया प्राप्यते / न विकल्पविषयात् / अत एव यद्यपि विकल्पविषयो दृश्य इवावसीयते तथापि न दृश्य एव / ततोयकियाभावात् / दृश्याच भावात् / अतस्तदेव स्वलक्षणं.न विकल्पविषयम् / अन्यत्सामान्यलक्षणम् / एतस्मात्स्वलक्षणाचदन्यत्स्वलक्षणं यो न भवति ज्ञानवि; पयस्तत्सामान्यलक्षणम् / विकल्पविज्ञानेनावसीयमानो ह्यर्थः सन्निधानासन्निधानाभ्यां ज्ञानप्रतिज्ञासं न भिनत्ति / तथा ह्यारोप्यमाणो वहिरारोपादस्ति / आरोपाच्चदूरस्थो निकटस्थश्व | तस्य समारोपितस्य सन्निधानादसन्निधानाच ज्ञानप्रतिभासस्य न भेदः स्फुटत्वेनास्फुटत्वेन वा / ततः स्वलक्षणादन्य उच्यते / सामान्येन लक्षणं सामान्यलक्षणम् / साधारणं रूपमित्यर्थः / समारोप्यमाणं हि रूपं सकलवीहसाधारणम् / ततस्तसामान्यलक्षणम्। 1 यदेवार्थक्रियाकारी तदेव परमार्थसत् / नित्यं नार्थक्रियाक रीतन्त्र तत्परमार्थसत्। 2 तत्सामान्यलक्षणम् , ख. तस्मात्सामान्यलक्षणम् / 3 नीश्चीयमानः। 4 ततस्तत्समान्यलक्षणम् , ख. ततस्तस्मात्सामान्य लक्षणम्
SR No.034224
Book TitleNyayabindu
Original Sutra AuthorN/A
AuthorDharmottaracharya
PublisherChaukhambha Sanskrit Granthmala
Publication Year1924
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy