SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ प्रथमपरिच्छेदः कः पुनरसौ विषयो' ज्ञानस्य यः स्वलक्षणं प्रतिपत्तव्य इत्याहयस्यार्थस्य संनिधानासंनिधानाभ्यां ज्ञान. प्रतिभासभदस्तत्स्वलक्षणम् / अर्थशब्दो विषयपर्यायः / यस्य ज्ञानविषयस्य / समिधानं निकटदेशावस्थानम् / असनिधानं दूरदेशावस्थानम् / तस्मात्सनिधानादसनिथानाच ज्ञानप्रतिभासस्य ग्राह्याकारस्य भेदः स्फुटत्वास्फुटत्वाभ्याम् / यो हि ज्ञानस्य विषयः सन्निहितः सन्स्फुट. माभास ज्ञानस्य करोति / असन्निहितस्तु योग्यदेशावस्थित एवास्फुटं करोति तत्स्वलक्षणणम् / सर्वाण्येव हि वस्तूनि दुरादस्फुटानि दृश्यन्ते / समीपे स्फुट नि / तान्येव स्वलक्षणानि / कस्मात्पुनः प्रत्यक्षविषय एव स्वलक्षणम् / तथा हि विक. ल्पविषयोपि वह्निदृश्यात्मक एवासीयत इत्याह-- तदेव परमार्थसतु / परमार्थोऽकृत्रिममनारोपितं रूपम् / तेनास्तीति परमार्थस। य एवार्थः सविधानासन्निधानाभ्यां स्फुटमस्फुटं च प्रति. जासं करोति परमार्यसन्स एव / स एवं च प्रत्यक्षाविषयो यततस्मात्तदेव स्वलक्षणम् / कस्मात्पुनस्तदेव परमार्थसदित्याह-- ___ अर्थकियासामथ्यर्लक्षणत्वाद्वस्तुनः / अर्थ्यत इत्यर्थः / हेय उपादेयश्च / हेयो हि हातुमिष्यत १ज्ञातव्यः। 2 ज्ञानस्य, ख० शान / 3 सन् , ख० स / 4 निश्चीयते। 5 एवं' इति पदं ख. पुस्तक एवोपलभ्यते /
SR No.034224
Book TitleNyayabindu
Original Sutra AuthorN/A
AuthorDharmottaracharya
PublisherChaukhambha Sanskrit Granthmala
Publication Year1924
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy