SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ 12 न्यायबिन्दु स्वमसाधारणं लक्षणं तत्त्वं स्वलक्षणम् / वस्तुनो धमाधारणं च तत्त्वमस्ति सामान्यं च / यदसाधारणं तत्प्रत्यक्षग्राह्यम् / द्विविधो हि प्रमाणस्य विषयो ग्राह्यश्च यदाकारमुत्पद्यते / पापणीयश्च यमध्यवस्यति / अन्यो हि ग्राह्योऽन्यश्चाध्यवसेयः / प्रत्यक्षस्य हि क्षण एको ग्राह्यः / अध्यवसेयस्तु प्रत्यक्षवलोत्पमेन निश्चयेन संतान एव / संतान एव च प्रत्यक्षस्य प्रापणीयः / क्षणस्य प्रापयितुमशक्यत्वात् / तथानुमानमपि स्वप्रतिभासेऽनर्थेऽनयाध्यवसायेन प्रवृत्तेरनर्थग्राहि / स पुनरारोपितोऽर्थो गृह्यमाणः स्वलक्षणत्वेनावसीयते यतस्ततः स्वलक्षणमध्यवसितं प्रवृत्तिविषयोनुमानस्य / अनर्थस्तु ग्राह्यः / तदत्र प्रमाणस्य ग्राह्य विषयं दर्शयता प्रत्यक्षस्य स्वलक्षणं विषय उक्तः / 1 प्रमाणस्य विषयः, ख० विषयः प्रमाणस्य / 2 अध्यवस्यति शास्यत्यित्यर्थः। 3 बौद्धनये विज्ञानमर्थजनितमाकारमर्थस्य ग्राहकम्। तदुत्पत्ति मन्तरेण विषयं प्रति नियमायोगात् / घटज्ञानं घटादेवोत्पद्यत इत्यर्थ ।जनि वं विज्ञानस्य प्रमाणस्य वा। प्रमाणस्य ग्रायो विषय एव तस्यार्थाकारत्वम् / तस्य प्रापणीयो विषय एव तस्यार्थग्राहकत्वम् / 4 अध्यवसेयोऽर्थः / 5 बोद्धमते यत्सत्तत्सर्व क्षणिकम् / यदेकास्मि क्षणे विद्यते तद् द्वितीये क्षणे विनश्यते / जीवस्य विषयेऽयि त इत्यमेव प्राहुः / एक स्मि प्राणिन्येकस्मिन्क्षणे यो जीवा विद्यते स क्षणान्तरमेव विनश्यते। द्वितीयक्षणे तस्य सन्तानमात्रमवशिष्यते / आदानप्रदानादीनां स्मृ तिरूपव्यवहारस्तु संस्काराजायते / ६न कोऽपि प्रत्यक्षेण क्षणं प्रापयितुं शक्यः / तस्यात्यन्त धमत्वात् / अत एवाविद्याप्रत्ययेन पूर्ववदिवावभासयन्सन्तान एव प्रत्यक्षस्य प्रापणीयः। 7 अनर्थाध्यवसायेन, ख० अर्थाध्यवसायेन /
SR No.034224
Book TitleNyayabindu
Original Sutra AuthorN/A
AuthorDharmottaracharya
PublisherChaukhambha Sanskrit Granthmala
Publication Year1924
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy