________________ प्रथमपरिच्छेदः न्ताधज्ज्ञातं भाव्यमानस्य संनिहितस्येव स्फुटतराकारग्राहि ज्ञानंयोगिनः प्रत्यक्षम् / तदिह स्फुटाभत्वारम्भावस्था भावनाप्रकपः / अभ्रकव्यवहितमिव यदा भाव्यमानं वस्तु पश्यति सा प्रकर्षपर्यन्तावस्था / करतलामलकवद्भाव्यमानस्यार्थस्य यद्दर्शनं तद्योगिनः प्रत्यक्षम् / तदि स्फुटाभम् / स्फुटाभत्वादेव च निर्विकल्पकम् / विकल्पविज्ञानं हि सकेतकालदृष्टत्वेन वस्तु गृहच्छन्दससंगयोग्यं गृह्णीयात् / संकेतकालदृष्टत्वं च संकेतकालोत्पन्नज्ञानविषयत्वम् / यथा च पूर्वोत्पन्नं विनष्टं ज्ञानं सम्प्र. त्यसत् / तद्वत्पूर्वविनष्टज्ञानविषयत्वमपि सम्प्रति नास्ति वस्तुनः / तदसद्रूपं वस्तुनो गृहदसंनिहितार्थग्राहित्वादस्फुटाभम् / अस्फुटाभत्वादेव च सविकल्पकम् / ततः स्फुटाभत्वानिर्विकल्पकम् / प्रमाणशुद्धार्थग्राहित्वाच्च संवादकम् / अतः प्रत्यक्षम् / इतरप्रत्यक्षवत् / योगः समाधिः / स यस्यास्ति स योगी। तस्य ज्ञान प्रत्यक्षम् / इति शब्दः परिसमाप्तयर्थः / इय. देव प्रत्यक्षमिति / तदेवं प्रत्यक्षस्य कल्पनापोढत्वाभ्रान्तत्वयुक्तस्य प्रकारभदं अतिपाद्य विषयविमतिपत्तिं निराकर्तुमाह तस्य विषयः स्वलक्षणम् / तस्य चतुर्विधप्रत्यक्षस्य विषयो वोद्धव्यः / स्वलक्षणम् / 1 यस्मिन् काले संकेत उत्पद्यते तस्मिन्नेव काले तस्य ज्ञानवियित्वं संकेतकालोत्पन्नशानाविषयत्वम् / , 2 'अर्थ' इति पाठो स्व० पुस्तके न विद्यते / 3. 'एव च' इति पाठो ख० पुस्तक एवोपलभ्यते। 4 परिसमाप्त्यर्थः, ख० परिसमाप्तिवचनम् / 5 चतुर्विध०, ख० चतुर्विधस्य /