SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ न्यायविन्दुः रूपेणानुभूयत इति न निश्चीयते। यदि हि सातादिरूपायं नीलादिरनुभूयत इति निश्चीयेत स्यात्तदा तस्य सातादिरूपत्वम् / यस्मिन्रूपे प्रत्यक्षस्य साक्षात्कारित्वव्यापारो विकल्पेनानुगम्यते तत्प्रत्यक्षम् / न च नीलस्य सातरूपत्वमनुगम्यते / तस्मा. दसातानीलाधर्थादन्यदेव सातमनुभूयते नीलानुभवकाले / सच्च ज्ञानमेव / ततोऽस्ति ज्ञानानुभवः / तच्चे ज्ञानरूपं वेदनपात्मनः साक्षात्कारि निर्विकल्पकमभ्रान्तं च तस्मात्प्रत्यक्षम् / योगिप्रत्यक्षं व्याख्यातुमाह-- भतार्थभावनाप्रकर्षपर्यन्त योगिज्ञानं चेति / भूतः सद्भूतोऽर्थः / प्रमाणेन दृष्टश्च सद्भूतः / यथा चत्वार्यार्यसत्यानि / भूतार्थस्य भावना पुनः पुनश्चेतसि विनिवशनम् / भावनायाः प्रकर्षों भाव्यमानार्थाभासस्य ज्ञानस्य स्फु. टामत्वारम्भः / प्रकर्षस्य पर्यन्तो यदा स्फुटाभत्वमीषदसम्पूर्ण भवति / यावद्धि स्फुटामत्वमपरिपूर्ण तावत्तस्य प्रकर्षगतिः / सम्पूर्ण तु यदा तदा नास्ति प्रकर्षगतिः / ततः सम्पूर्णावस्थायाः प्राक्तन्यवस्था स्फुटाभत्वाकर्षपर्यन्त उच्यते / तस्मात्पर्य १सातरूपेण, ख० सातानुरूपेण / 2 सातादिरूपः, ख० सतरूपः / / 3 'तदा' इति पदं ख० पुस्तक एवोपलभ्यते। . 4 तश्च शानरूपं वेदनं, ख. तत्वज्ञानस्वरूपवेदनम् / 5 चत्वार्यार्यसत्यानि दुःखसमुदयानरोधमार्गसंशकानि / विनिवेशनं स्थापनम् / 7 "भावनायाः" इत्यस्य स्थाने ख० पुस्तकस्य 'भावनयों' सं पाठोऽशुद्धो प्रतीयते / 8 आभासस्य, ख० अवभासस्य / 9 गतिः , ख. गमनम्।
SR No.034224
Book TitleNyayabindu
Original Sutra AuthorN/A
AuthorDharmottaracharya
PublisherChaukhambha Sanskrit Granthmala
Publication Year1924
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy