SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ 19 प्रथमपरिच्छेदः रस्तः / यदा चेन्द्रियज्ञानविषयोपादेयभूतः क्षणो गृहीतस्तदे. न्द्रियज्ञानेनागृहीतस्य विषयान्तरस्य ग्रहणादन्धबधिरायभाव. दोपप्रसंगो निरस्तः / एतब मनोविज्ञानमुपरतव्यापारे चक्षुषि प्रत्यक्षमिष्यते / व्यापारवति तु चक्षुषि यद्रूपज्ञानं तत्सर्वं च. क्षुराश्रितमेव / इतरथा चक्षुराश्रितत्वानुपपत्तिः कस्याचदपि विज्ञानस्य / एतच्च सिद्धान्तप्रसिद्धं मानसं प्रत्यक्षम् / न त्वस्य प्रसाधकमास्त प्रमाणम् / एवंजातीयकं तयदि स्यान्न कश्चिदोषः स्यादिति वक्तुं लक्षणमाख्यातमस्येति / . स्वसंवेदनमाख्यातुमाह सर्व चित्तचत्तौनामात्मसंवेदनम् / चित्तपर्थमात्रग्राहि / चैत्ता विशेषावस्थाग्राहिणः सुखादयः। सर्वे च ते चित्तचैत्ताश्च सर्वचित्त,त्ताः। सुखादय एव स्फुटानुभव. त्वात्स्वसंविदिताः / नान्या चित्तावस्थेत्येतदाशङ्कानिवृत्यर्थः सर्वग्रहणं कृतम् / नास्ति सा काचिचित्तावस्था यस्यामात्मनः संवेदनं न प्रत्यक्षं स्यात् / येन हि रूपेणात्मा वेद्यते तद्रूपमामलंवेदनं प्रत्यक्षम् / इह च रूपादौ वस्तुनि दृश्यमानेऽन्तरः सुखाद्याकारस्तुल्यकालं संवेद्यते / न च गृह्यमाणाकारो नीलादिः मातादिरूपो वेद्यते इति वक्तुं शक्यम् / यतो नीलादिः सात १ख. ज्ञानस्य / 2 बाह्यास्तित्ववादिनां सौत्रान्तकानां मते प्रत्येकं बस्तु इविधम्। बाह्यमान्तरञ्च / बाह्यं पुनर्द्विविधम् / भूतं भौतिकश्च। आन्तरपि द्विविधम् / चित्तं चैत्तञ्च / चैत्तं चैत्तिकमपि कथ्यते। भूतं पृथि•ादयश्चत्वारः परमाणवः / भौतिक रूपादयश्चक्षुरादयश्च / चित्तं. शानम् / चैत्तिक रुपविज्ञानवेदनासंज्ञासंस्कारसंशकाः पञ्चस्कन्धाः। झानं पुनर्द्विविधम् / आलयविज्ञानमहमित्याकारकम् / प्रवृत्तिविज्ञा. मेन्द्रियादिजन्यं रूपादिविषयम्। ३वक्तुं शक्यं,ख० शक्यं वक्तुं /
SR No.034224
Book TitleNyayabindu
Original Sutra AuthorN/A
AuthorDharmottaracharya
PublisherChaukhambha Sanskrit Granthmala
Publication Year1924
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy