________________ न्यायविन्दुः न विद्यतेऽन्तरमस्येत्यनन्तरः। अन्तरं च व्यवधानं विशेषश्वोच्यते / ततश्चान्तरे प्रतिषिद्धे समानजातीयो द्वितीयक्षणभाव्युपादेय क्षण इन्द्रियविज्ञानविषयस्य गृह्यते / तथा च सतीन्द्रियज्ञानविष यक्षणादुत्तरक्षण एकसन्तानान्तभूतो गृहीतः / स सहकारी यस्येन्द्रियविज्ञानस्य तत्तथोक्तम् / द्विविधश्च सहकारी / परस्परोपका. री एककार्यकारी च / इह च क्षीणके वस्तुन्यतिशयाधानायोगा. देककार्यकारित्वेन सहकारी गृह्यते / विषयविज्ञानाभ्यां हि मनोविज्ञानमेकं क्रियते यतस्तदनयोने परस्परसहकारित्वम् / ईदृशेनेन्द्रियविज्ञानेनालम्बनप्रत्ययभूतेनापि योगिज्ञानं जन्यते / तनिरासार्थ समनन्तरप्रत्ययग्रहणं कृतम् / समश्चासौ ज्ञानत्वे. नानन्तरश्वासावव्यवहितत्वेन स चासौ प्रत्ययश्च हेतुत्वात्समन. न्तरप्रत्ययः तेन जनितम् / मनोविज्ञानम् / सदनेनैकसन्तानान्तर्भूतयोरेवेन्द्रियज्ञानमनोज्ञानयोजन्यजन कभावे मनोविज्ञानं प्रत्यक्षमित्युक्तं भवति / ततो योगिज्ञानं परसन्तानवर्ति निरस्तम् / यदा चेन्द्रियज्ञानविषयादन्यो विषयो मनोविज्ञानस्य तदा गृहीतगृहणादासर्जितोप्रामाण्यदोषो नि 1 "अनन्तरः" इति पदं ख० पुस्तक एवोपलभ्यते। 2 विषयविज्ञानाभ्यां हि मनोविज्ञानं, ख० विषयविज्ञानाभ्यां म नोविज्ञानाभ्यां मनोविज्ञानम्। 3 तदनयोन परस्परसहकारित्वं, ख० तदनयोः परस्परस्य सह कारित्वम् / 4 'कृतम्' इति पदं ख० पुस्तके नैवोपलभ्यते। 5 इदं पदं ख० पुस्तके न विद्यते / 6 'इति' इति पदं ख० पुस्तके न विद्यते / 7 अपाकृतं खाण्डितमित्यभिप्रायः। प्राप्तः /