SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ प्रथमपरिच्छेदः .. 17 मकारणैरिन्द्रियविषयबाह्याध्यात्मिकायगतैरिन्द्रयमेव विकर्तमम् / अविकृत इन्द्रिय इन्द्रियभान्त्ययोगात् ।एते संक्षोभपर्यन्ता आदयो येषां ते तथोक्ता / आदिग्रहणेन काचकामालादय इन्द्रियस्था गृहन्ते / आशुनयनानयनादयो विषयस्थाः / आशुनयनानयने हि कार्यमाणेऽलातादावाग्निवर्णदण्डाभासा भ्रान्तिर्भवति / हस्तियानादयो बाह्याश्रयस्था गाढमर्मपहारादय आध्या. त्मिकाश्रयस्था विभ्रमहेतवो गृह्यन्ते। तैरनाहितो विभ्रमो यस्मिस्तत्तथाविधं ज्ञान प्रत्यक्षम् / / तदेवं लक्षणमाख्याय यैरिन्द्रियमेव द्रष्टु कल्पितं मानस. प्रत्यक्षलक्षणे च दोषउद्भावितः स्वसंवेदनं च नाभ्युपगतं योगिज्ञानं च तेषां विप्रतिपत्तिनिराकरणार्थ प्रकारभेदं प्रत्यक्षस्य दर्शयन्नाह-- + तच्चतुर्विधम् / सः इन्द्रियज्ञानं स्वविषयानन्तरविषयसहकारिणेन्द्रयज्ञानेन समनन्तरप्रत्ययेन जनितं तत् / इन्द्रियस्य मानमिन्द्रियज्ञानम् / इन्द्रियाश्रितं यत्सत्प्रत्यक्ष. / / मानसप्रत्यक्षे पैरों दोष उद्भावितस्तं निराकर्नु मानसप. यक्षलणमाह। स्व आत्मीयो विषय इन्द्रियज्ञानस्य तस्यानन्तरः / १"इन्द्रिय" इति पाठो ख० पुस्तके नैवोपलभ्यते। / 2 'हि'इति पदं ख० पुस्तके नैवोपलभ्यते। ३ख० भलाते। / 4 ख० एतैः। 5 अनाहितः दूरीकृतः। 6 ख. निरासार्थम् / 7 ख० मानसे च प्रत्यक्षे। 8 अन्यवादिभिः। 9 प्रकटीकृतः। 10 ख. विज्ञानस्य।
SR No.034224
Book TitleNyayabindu
Original Sutra AuthorN/A
AuthorDharmottaracharya
PublisherChaukhambha Sanskrit Granthmala
Publication Year1924
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy