________________ न्यायविन्दु मप्यर्थस्याच नास्ति / ततः पूर्वकालदृष्टत्वमपश्यच्छोत्रज्ञानं न वाच्यवाचकमावग्राहि / अनेनैव न्यायेन योगिज्ञानमपि सकल. शब्दार्थावभासित्वेऽपि सङ्केतकालदृष्टत्वाग्रहणानिर्विकल्पकम् / तया कल्पनपा कल्पनास्वभावेन रहितं शून्यं सज्ज्ञानं यदभ्रा. न्तं तत्प्रत्यक्षमिति परेण सम्बन्धः। कल्पनापोढत्वाभ्रान्तत्वे परस्परसापेक्षे प्रत्यक्षलक्षणं न प्रत्येकमिति दर्शयितुं तया रहितं यदभ्रान्तं तत्प्रत्यक्षमिति लक्षणयोः परस्परसापेक्षयोः प्रत्यक्ष. विषयत्वं दर्शितमिति / तिमिराशभ्रमणनौयानसंक्षोभाधनाहितविभ्रमं ज्ञानं प्रत्यक्षम् / तिमिरमणाविप्लवः / इन्द्रियगतमिदं विभ्रमकारणम् / आशुभ्रमणमलातादेः / मन्दं हि भ्रम्यमाणेऽलातादौ न चक्रभ्रान्तिरुत्पद्यते / तदर्थमाशुगृहणे न विशेष्यते भ्रमणम् / एतच्च विषयगतं विभ्रमकारणम् / नावा गमनं नौयानं / गच्छन्त्यां नावि स्थितस्य गच्छदृक्षादिभ्रान्तिरुत्पद्यत इति यानग्रहणम् / एतच्च बाह्याश्रयस्थितं विभ्रमकारणम् / संक्षोभो वातपित्तश्लेप्मणाम् / वातादिषु हि क्षोभं गतेषु ज्वलितस्तम्भादिभ्रान्ति रुत्पद्यते / एतच्चाध्यात्मगतं विभूमकारणम् / सर्वैरेव च विभू. 1 ज्ञानं, ख० विज्ञानं / . 2 ख. पुस्तके 'सूत्रेण ( लिखितपुस्तके मूत्रेण)' इत्याधिको 4 ठो विद्यते। नेत्रयोः। 4 ख० भ्रम / 5 'हि' इति पदं ख० पुस्तक एवोपलभ्यते / 6 ख० भ्राम्यमाणे / 70 भ्रम / 8 ज्वलित०, ख० ज्वलितरूपं / ९ख० आध्यात्मिकं भ्रान्तिकारणम् /