SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ प्रथमपरिच्छेदः कुतः पुनरेतद्विकल्पोऽर्थानोत्पद्यत इति / अर्थसंनिधिनिरपेक्षत्वात् / बालोऽपि. हि यावश्यमानं स्तनं स एवायमिति पूर्षदृष्टत्वेन न प्रत्यवमृशति तावन्नोपरतरुदितो मुखमर्पपत्ति स्तने / पूर्वदृष्टापरदृष्टं चार्थमेकीकुर्वद्विज्ञानमसन्निहितविषयम् / पूर्वदृष्टस्यासन्निहितत्वात् / असन्निहितविषयं चार्थनिरपेक्षम् / अनपेक्षं च प्रतिभासनियमहेतोरभावादनियतप्रतिभासम् / सादृशं चाभिलापसंसर्गयोग्यम् / इन्द्रियविज्ञानं तु समिहि तमात्रग्राहित्वादर्थसापेक्षम् / अर्थस्य च प्रतिभासनियमहेतुत्वानियतप्रतिभासम् / ततो नाभिलापसंसर्गयोग्यम् / अत एव स्वलक्षणस्यापि वाच्यवाचकभावमभ्युपगम्यैतदविकल्प कत्वमुच्यते। यद्यपि हि स्वलक्षणमेव वाच्यं वाचकं च भवेत्तथाप्यभि. लापसंमृष्टार्थ विज्ञानं सविकल्पकम् / न चेन्द्रियविज्ञानमर्थेन नियमितप्रतिभासत्वादभिसापसंसर्गयोग्यप्रतिभासं भवतीति निर्विकल्पकम् / श्रोत्रज्ञानं तर्हि शब्देस्वलक्षणग्राही / शब्दस्व. लक्षणं किञ्चिद्वाच्यं किञ्चिद्वाचकमित्यभिलापसंसर्गयोग्यप्रतिभासं स्यात् / तथा च सविकल्पकं स्यात् / नैष दोषः / सत्यपि वलक्षणस्य वाच्यवाचकभावे सङ्केतकालदृष्टत्वेन गृह्यमाणं बलक्षणं वाच्यं वाचकं च गृहीतं स्यात् / न च सङ्केतकालभा. दर्शनविषयत्वं वस्तुनः सम्प्रत्यस्ति / यथा हि सङ्केतकालभाविदर्शनमद्य निरुद्धं तद्वत्तद्विषयत्व. 1 विकल्पविक्षानम्। 2 स्मरति / 3 सन्निहितमात्र० ख० संनिहिताथमात्र / .4 ख० श्रोत्रविज्ञानं / 35 "शब्द"इति पाठो ख० पुस्तके न विद्यते / 6 शद्वस्वलक्षणं, ख० शब्दे स्वलक्षणं च। ..
SR No.034224
Book TitleNyayabindu
Original Sutra AuthorN/A
AuthorDharmottaracharya
PublisherChaukhambha Sanskrit Granthmala
Publication Year1924
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy