________________ 14 न्यायविन्दुः ज्ञानेऽभिधेयाभिधानयोराकारौ संनिविष्टी भवतस्तदा संसृष्टेऽभिधानाभिधेये भवतः। अमिलापसंसर्गाय योग्योऽभिधेयाँभासो यस्यां प्रतीतौ सा तथोक्ता / तत्र काचित्प्रतीतिरभिलापेन संसृष्टाभासा भवति / यथा व्युत्पन्नसंकेतस्य घटार्थकल्पना घटशब्दसंसृष्टार्थावभासा भवेति / काचित्वभिलापेनासंसृष्टाप्यभिलापसंसर्गयोग्याभासाभवति / यथा बालकस्याव्युत्पन्नसंकेतस्य कल्पना। तत्राभि. लापसंसृष्टाभासा कल्पनेत्युक्तावव्युत्यन्नसङ्केतस्य न संगृहाते / योग्यगृहणे तु सापि संगृह्यते / यद्यप्यभिलापसंसृष्टाभांसा न भवति तदहेजातस्य बालकस्य कल्पना अभिलापसंसर्गयोग्यपतिभासा तु भवत्येव / या चाभिलापसंसृष्टा सापि योग्या / तत उभयोरपि योग्यगृहणेन सङ्ग्रहः। असत्यभिलापसंसर्गे कुतो योग्यतावासतिरिति चेत् / अनियतप्रतिभासत्वात् / अनियतप्रतिभासत्वं च प्रतिभासनियमहेतोरभावात् / ग्राह्यो ह्यर्थो विज्ञानं जनयन्नियतप्रतिभासं कुर्यात् / / यथा रूपं चक्षुर्विज्ञानं जनयन्नियतप्रतिभासं जनयति / विकपविज्ञानं त्वर्थानोत्पद्यते / ततः प्रतिभासनियमहेतोरभावादनि. यतप्रतिभासम् / 1 ख० आभिधानाभिधेययोः। 2 ख. निविष्टौ। 3 ख० अभिधेयाकारभासः / 4 ख० अभिलाप० / 5 "भवति" इति पदं ख० पुस्तके न विद्यते। .. 6 संसृष्टाभासा, ख० संसृष्टप्रभासा ( ? * संसृष्टप्रतिभासा ) / 7 स्व० संगृह्यते। ८०आभासा, ख० प्रतिभासा। 9 इदं पदं क० पुस्तके न विद्यते / 10 अभिलापसंसर्गयोग्यप्रतिभासाऽभिलापसंमृयोः। .. 11 योग्यता, ख. योग्यत्यः / 12 स्थानम् / 13 प्रतिभासत्वे