________________ प्रथमपरिच्छेदः गच्छवृक्षो दृष्टस्तद्देशो नावाप्यते / यद्देशश्चावाप्यते स न दृष्ट इति / न तस्मात्कश्चिदर्थोऽवाप्यते / ज्ञानान्तरादेव तु वृक्षा. दिरर्थोऽवाप्यते / इत्येवमश्रान्तग्रहणं विप्रतिपत्तिनिरासार्थम् / भ्रान्तं हनुमानम् / स्वतिभासेऽनर्थेऽध्यवसायेन प्रवृत्तत्वात् / प्रत्यक्षं तु ग्राह्य रूपे न विपर्यस्तम् / न त्वविसंवादकमभ्रान्त. मिह ग्रहीतव्यम् / यतः सम्यग्ज्ञानमेव प्रत्यक्षम् / नान्यत् / .. तत्र सम्यग्ज्ञानत्वादेवाविसम्वादकत्वे लब्धे पुनरविसम्बादकग्रहणं निष्प्रयोजनमेव / एवं हि वाक्यार्थः स्यात् / प्रत्यक्षाख्यं यदविसम्वादकं ज्ञानं तत्कल्पनापोढमविसम्वादकं चेति / न चानेन द्विरविसम्वादग्रहणेन किश्चित् / तस्माद्द्यावेऽर्थक्रियाक्षमे वस्तुरूपे यदविपर्यस्तं तदभ्रान्तमिह चेदितव्यम् / कीदृशी पुनः कल्पनेह गृह्यत. इत्याहअभिलापसंसर्गयोग्यप्रतिभासप्रतीतिः कल्पना तया रहितम् / अभिलप्यतेऽनेनेति अभिलापो वाचकः शब्दः। अभिलापेन संसर्ग अभिलापसंसर्गः / एकस्मिज्ञानेऽभिधेयाकारस्याभिधानाकारेण सह ग्राह्याकारतया शीलनम् / ततो यदेकस्मि: 1 ख०च। मीलनम - 2 "( विप्रतिप्रत्तिनिरासार्थ ) तथाऽभ्रान्तग्रहणेनाप्यनुमाने विर्तित कल्पनापोडग्रहणं विप्रतिपत्तिनिरासार्थम्" इत्यधिको पाठो द्यते ख० पुस्तक इति ज्ञातव्यम्। 3 ख. स्वप्रतिभासो (? स्वप्रतिभासे) थैर्थाध्यावसायेन। ४ज्ञातव्यम्। ५ख अभिलप्यते। . . 6 “अभिलापसंसर्गः" इति पदं क० पुस्तके न विद्यते। 70 ख० मीलनम् !