________________ न्यायबिन्दुः भ्रान्तत्वं च विधीयते। यत्तद्भवतामस्माकचार्थेषु साक्षात्कारिज्ञानं प्रसिद्धं तत्कल्पनापोढांभ्रान्तत्वयुक्तं द्रष्टव्यम् / न चैतन्मन्तव्यं कल्पनापोढाभ्रान्तत्वं चेदप्रसिद्धं किमन्यत्प्रत्यक्षस्य ज्ञानस्य रूपमवशिष्यते / यत्प्रत्यक्षशब्दवाच्यं सदनद्यतेति / यस्मादिन्द्रियान्वयव्यतिरेकानुविधाय्यर्थेषु साज्ञात्कारिज्ञानं प्रत्यक्षशब्दवाच्यं सर्वेषां सिद्ध / तदनुवादन कल्पनापोढाभ्रान्तत्वविधिः। कल्पनाया अपोढमपेतं कल्पनापोढम् / कल्पनास्वभावरहितमिसर्थः / अभ्रान्तमक्रियाक्षमे पस्तुरूपेऽविपर्यस्तमुच्यते / अर्थक्रियाक्षमं च वस्तुरूपं सन्निवेशोपाधिधर्माल्मकम् / तत्र यन्न भ्राम्यति तदभ्रान्तम् / एतच्च लक्षणद्वयं विप्रतिपत्तिनिराकरणार्थम् / न त्वनुमाननिवृत्त्यर्थम् / यतः कल्पनापोढग्रहणेनैवानुः मानं निवर्तितम् / तत्रासत्यभ्रान्तग्रहणे गच्छदृक्षदर्शनादि प्र. त्यक्षं कल्पनापोढत्वात्स्यात् / ततो हि प्रवृत्तेन वृक्षमात्रमवाप्यत इति संवादकत्वात्सम्यग्ज्ञानम् / कल्पनापोढत्वाच्च प्रत्य. क्षमिति स्यादाशङ्का / तन्निवृत्त्यर्थमभ्रान्तग्रहणम् / तद्धि भ्रा. न्तत्वान्न प्रत्यक्षम् / त्रिरूपलिङ्गजवाभावाच नानुमानम् / न च प्रमाणान्तरमस्ति / अतो गच्छवृक्षदर्शनादि मिथ्याज्ञानमित्युक्तं भवति / यदि मिथ्याज्ञानं कथं ततो वृक्षावीप्तिरिति चेत् , न ततो वृक्षवाप्तिः / नानादेशगामी हि वृक्ष. स्तेन परिच्छिन्नः एकदेशनियतश्च वृक्षोऽवाप्यते। ततो यदेशो 1 'च' इति पदं ख० पुस्तके न विद्यते / 2 ख० तत्कल्पनापोढभ्रान्तत्व। 3 प्रकटीक्रियेत / 4 ख० प्रसिद्धं / 5 ख तदनकल्पना०। 6 रहितम् / 7 अविरुद्धम् / 8 "च" इति पद क० पुस्तके नैवोपलभ्यते। ९क० ख० वर्णात्मकम् / 10 ख० निरासार्थम् / 21 प्राप्तिाप्तिरित्यर्थः / 12 प्राध्यते शायत इत्यर्थः / -