________________ प्रथमपरिच्छेदः श्रितत्वं च व्युत्पत्तिनिमित्तं शब्दस्य / न तु प्रवृत्तिनिमित्तम् / अनेन त्वलक्षाश्रितत्वेनैकार्थसमवेतमर्थसाक्षात्कारित्वं लक्ष्यते / तदेव शब्दस्य प्रतिनिमित्तम् / ततश्च यत्किंचिदर्थस्य साक्षाकारिज्ञानं तत्सत्यक्षमुच्यते / यदि त्वक्षाश्रितत्वमेव प्रवृत्तिनि. मिसं स्यादिन्द्रियज्ञानमेव प्रत्यक्षमुच्यत / न मानसादि / यथा गच्छतीति गौरिति गमनक्रियायां व्युत्पादितोऽपि गोशब्दो गमनक्रियोसलक्षितमेकार्थसमवेतं गोत्वं प्रवृत्तिनिमित्तीकरोति / तथा च गच्छत्यगच्छति च गवि गोशब्दः सिद्धो भवति / मीयतेऽनेनेति मानम् / करणसाधनेन मानशब्देन सारूप्य. लक्षणं प्रमाणमभिधीयते / लिङ्गग्रहणसम्बन्धस्मरणस्य पश्चा. न्मानमनुमानम् / गृहीते पक्षधर्म स्मृते च साध्यसाधनसम्बन्धेऽनुमानं प्रवर्तत इति पश्चात्कालभाव्युच्यते / चकारः प्रत्यक्षा. नुमानयोस्तुल्यबलत्वं समुच्चिनोति / यथार्थाविनाभाविवादर्थ प्रापयत्प्रत्यक्ष प्रमाणम् / तद्वदर्थाविनामावित्वादनुमानमपि परिछिम्नमर्थ प्रापयत्प्रमाणमिति / तत्र कल्पनापोढमभ्रान्तं प्रत्यक्षम् / तत्रेति सप्तम्यर्थे वर्तमानो निर्धारणे वर्तते / ततोऽयं वाक्यार्थः / तत्र तयोः प्रत्यक्षानुमानयोरिति समुदायनिर्देशः / प्रत्यक्षमित्येकदेशः / तत्र समुदायात्प्रत्यक्षत्वजात्यैकदेशस्य पृथक्करणं निर्धारणम् / तत्र प्रत्यक्षैत्वमनूद्य कल्पनापोढत्वम 1 "अक्षाश्रितत्वेन" इत्यशुद्धः पाठः मुद्रितपुस्तकस्य / 2 ख. 'लभ्यते'। 3 ख० 'विज्ञानम्'। 4 कथ्यते / 5 ख० "गृहीत."। 6 ख० "एकदेशनिर्देशः"। 7 क० “प्रत्यक्षं"।