________________ 10 न्यायविन्दुः / या। तत्र संख्याविप्रतिपत्तिनिराकतुर्माह द्विविधं सम्यग्ज्ञानम् / ____ द्वौ विधौ प्रकारावस्येति द्विविधम् / संख्याप्रदर्शनद्वारेण च व्यक्तिभेदो दार्शतो भवति / द्वे एव सम्यग्ज्ञानव्यक्ती इति / व्यक्ति भेदे प्रदर्शिते प्रतिव्यक्तिनियतं सम्यग्ज्ञानलक्षणमाख्यातुं शक्यम् / अप्रदर्शिते तु व्यक्तिभेदे सकलव्यत्यनुयायि सम्यग्ज्ञानलक्षणमेकं न शक्यं वक्तुम् / ततो लक्षणभेदकथनाङ्गमेव संख्याभेदकथनम् / अप्रदर्शिते तु व्यक्तिभेदात्मके संख्याभेदे लक्षणभेदस्य दर्शयितुमशक्यत्वात् / लक्षणनिर्देशाङ्गत्वादेव च प्रथमं संख्याभेदकथनम् / किं पुनस्तद्वैविध्यमित्याह प्रत्यक्षमनुमानश्च / प्रतिगतमाश्रितमक्षम् / अत्यादयः क्रान्ताद्यर्थे द्वितीययेति समासः / प्राप्तापन्नालङ्गतिसमासेषु परवल्लिङ्गप्रतिषेधात् / अभिधेयवल्लिङ्गे सति सर्वलिङ्गः प्रत्यक्षशब्दः सिद्धः / अक्षा. 1 विपत्तिपत्तिस्तु विवादः। 2 ख. द्वे विधे। 3 “एव" इति पाठः क० पुस्तके न विद्यते। 4 क. "व्यक्तिभेदे" / ख. "भेदे"। 5 "सकलव्यक्त्यनुयायि" इति पदं ख० पुस्तकादानतिं / क०पुस्तक इदन्न सुपाच्यम् / 6 'तु' इति पाठोऽधिको विद्यतेऽत्र ख० पुस्तके / 7 "वैविध्य" इति पाठः क० पुस्तके ख० पुस्तके च विद्यते। '. मुद्रितपुस्तकस्य सम्पादकस्य सम्मतौ "द्विविधं" इति भवितव्यम् / x अस्माकं मते तु प्रकृतः पाठः एव शोसनम् /