________________ प्रथमपरिच्छेदः सिद्धिः सन्यग्ज्ञाननिवन्धनेति / अपि स्वयमर्थः / या काचित्सि. दिः सा सर्वा कृत्स्नैवासौ सम्यग्ज्ञाननिबन्धनैवेति / मिथ्याज्ञानाद्धि काकतालीयापि नास्त्यर्थसिद्धिः / तथा हि-यदि प्रदर्शित. मर्थ प्रापयत्येवं ततो भवत्यर्थसिद्धिः / प्रदार्शतं च प्रापयत्स. म्यग्ज्ञानमेव / प्रदर्शितं चाप्रापयन्मिथ्याज्ञानम् / अप्रापकं च कथमर्थसिद्धिनिबन्धनं स्यात् / तस्माद्यन्मिध्याज्ञानं न ततोऽर्थसिद्धिः / यतश्चार्थसिद्धिस्तत्सम्यग्ज्ञानमेव / अत एव सम्यग्ज्ञानं यत्नतो व्युत्पादनीयम् / यतस्तदेव पुरुषार्थसिद्धिनिबन्धनम् / ततो यावद्देयात्पुरुषार्थसिद्धिः सम्यग्ज्ञाननिबन्धनैवेति ता. वदुक्तं सर्वा सौ सम्यग्ज्ञानपूर्विकेति / इति शब्दस्तस्पादित्य. स्मिन्नर्थे / यत्तदोश्च नित्यमभिसम्बन्धः / तदयमर्यो यस्मात्सम्यरज्ञानपूर्विका सर्वषुरुषार्थसिद्धिस्तस्मात्तव्युत्पाद्यते / यद्यपि च समासे गुणीभूतं सम्यग्ज्ञानं वथाह प्रकरणे व्युत्पादायतव्यस्वात्प्रधानम् / ततस्तस्यैव तच्छन्देन सम्बन्धः / व्यु-पाद्यते इति विपतिपत्तिनिराकरणन प्रतिपाद्यते व्युत्पाद्यत इति / . चतुर्विधा चात्र विप्रतिपत्तिः / संख्यालक्षणगोचरफलविष१ "एव" इति पाठः ख० पुस्तके नैवोपलभ्यते / २"सिद्धि" इत्यस्य स्थाने “सिद्धेः" इति पाठः स्व. पुस्तके। 3 ख. पुस्तकस्य "यावद्भया" इति पाठोऽशुद्धः प्रतीयते / क.. "या काचित्पुरूष०-सम्यग्ज्ञान." ख० “सा सम्यग्ज्ञान"। 4 ख० पुस्तके "सा" इति पदं न विद्यते। ५"तव्युत्पाद्यते" इत्यस्य स्थाने "तत्सम्यग्ज्ञान युत्पाद्यते". इति पाठः ख०पुस्तके। 6 व्युत्पाद्यते' इति पदं ख० पुस्तके न वर्तते / 7 गोचरस्तु विषयः।