SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ प्रथमपरिच्छेदः ज्ञानम् / अर्थक्रियानि सम् , अर्थक्रियासमर्थे च प्रवतकम् / त. योर्यत्प्रवर्तकं तदिह परीक्ष्यते / तच्च पूर्वमात्रम् / न तु साक्षाकारणम् / सम्यग्ज्ञाने हि सति पूर्वदृष्टस्मरणम् / स्मरणादभिलाषः / अभिलाषात्प्रवृत्तिः / प्रवृत्तेश्च प्राप्तिः / ततो न साक्षाद्धेतुः / अर्थक्रियानिौसे तु यद्यपि साक्षात्पत्तिस्तथापि तन्न परीक्षणीयम् / यत्रैव हि प्रेक्षावन्तोऽर्थिनः साशङ्कास्तत्परीक्ष्यते / अर्थक्रियानि से च ज्ञाते सति सिद्धः पुरुषार्थः / तेन तत्र न साशङ्का अर्थे ज्ञाते / अतस्तन्न परीक्षणीयम् / तस्मात्प. रीक्षाईमसाक्षात्कारणं सम्यग्ज्ञानमादर्शयितुं कारणशब्दं परित्यज्य पूर्वग्रहणं कृतम् / पुरुषस्यार्थः / अर्थ्यत इत्यर्थः / काम्यत इति यावत् / हेयोऽर्थ उपोदयो वा / हेयो ह्यर्थो हातुमिष्यते / उयोदेयोऽप्युपादातुम् / न च हेयोपादेयाभ्यामन्यो राशिरस्ति / उपेक्षणीयो प्यनुपादेयत्वाद्धेय एव / तस्य सिद्धिहोनमुपादानं च / हेतुनिवर्धना हि सिद्धिरुत्पत्तिरुच्यते / ज्ञाननिवन्धना तु सिद्धिरनुष्ठान. म् / हेयस्य हानमनुष्ठानम् / उपादेयस्य चोपादानम् / ततो हेयोपादेययोर्हानोपादानलक्षणानुष्ठितिः सिद्धिरित्युच्यते / ____ सर्वा चासौ पुरुषार्थसिद्धिश्चेति / सर्वशब्द इह द्रव्यका. स्न्ये वृत्तो न च प्रकारकात्स्न्र्थे / ततो नायमर्थः / द्विप्रकारापि 1 मध्ये' इत्याधिक ख० पुस्तके। 2 कामना / .3 "ख" अर्थ कियानि सात् / 4 ख० "प्राप्तिः" / 5 क० "झाने"। 6 खः "आर्थनः"। 7 "अपि" पदं क० पुस्तके न विद्यते / 8 हेतुरास्त निबन्धन कारण यस्याः। 9 ज्ञानमस्ति निबन्धनं यस्याः / 10 'इति' इति पदं खा पुस्तके न विद्यते / 11 कृत्स्नस्तु सम्पूर्णः / कृत्स्नस्य भावः काय॑न्यस्तस्मिन् / 12 "च" इति पाठः क. पुस्तके न विद्यते।
SR No.034224
Book TitleNyayabindu
Original Sutra AuthorN/A
AuthorDharmottaracharya
PublisherChaukhambha Sanskrit Granthmala
Publication Year1924
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy