________________ न्यायविन्दु सपर्थवस्तुप्रदर्शकं सम्यग्ज्ञानम् / यच तेन प्रदर्शितं तदेव मापणीयम् / अर्थाधिगात्मकं हि प्रापकमित्युक्तम् / तत्रं प्रदर्शितान्यद्वस्तु भिन्नाकारं भिनदेशं भिनकालं च / विरुद्धधर्मसंसगाख्यन्यद्वतु / देशकालाकारभेदश्च विरुद्धधर्मसंसर्गः / तस्मादन्याकरिवद्वस्तुग्राहि नाकारान्तरवति वस्तुनि प्रमाणम् / यथा पीतशतग्राहि शुक्ले शङ्ख / देशान्तरस्थग्राहि च न देशान्तरस्थे प्रमाणम् / यथा कुम्बिकाविवरदेशस्थायां मणिप्रभायां मणिग्राहि ज्ञानं नापवरकदेशस्थे मणौ / कालान्तरयुक्तग्राहि च न का. लान्तरवति वस्तुनि प्रमाणम् / यथार्द्धरात्रे मध्यान्हकालवस्तु. ग्राहि स्वप्मज्ञानं नार्द्धरात्रकाले वस्तुनि प्रमाणम् / ननु च देश. नियतमाकारनियतं च प्रापयितुं शक्यं यत्कालं तु परिच्छिमं तत्कालं न शक्यं प्रापयितुम् / नोच्यते यस्मिन्नव काले परिच्छि. द्यते तस्मिन्नेव काले प्रापयितव्यमिति / अन्यो हि दर्शनकालो. ऽन्यश्च प्राप्तिकालः / किं तु यत्कालं परिच्छिन्नं तदेवं तेन प्रापणीयम् / अभेदाध्यवसायाच संतानगतमेकत्वं द्रष्टव्यमिति / सम्यग्ज्ञानं पूर्व कारणं यस्याः सा तथोक्ता / कार्यात्पूर्व भवत्कारणं पूर्व मुक्तम् / कारणशब्दोपादाने तु पुरुषार्थसिद्धेः साक्षात्कारणं मन्यते / पूर्वशब्दे तु पूर्वमात्रम् / द्विविधं च सम्य 1 1 ख. अर्थाविजियासमर्थवस्वधिगमात्मकत्वम् / 2 अर्थाधिगमे। 3 क. पुस्तकस्य "संसद्मः" ख० पुस्तकस्य च "संसर्गः" इति ठावशुद्धौ। 4 ख. "अन्वाकारवस्तु"। ५क० "कुंधिका"। 6 "च" इति पदं क० पुस्तके न विद्यते / 7 "तेन" इति पदं क० पुस्तके न विद्यते। 8 अध्यवसायो ज्ञानं। ९क० ख० शब्दापादाने। 10 ख० पुस्वकस्य “गम्यत" इति पाठोऽशुद्धोऽस्ति /