________________ प्रथमपरिच्छेदः णव्यापारः / अत एवानषिमतविषयं प्रमाणम् / येनैव हि ज्ञाने न प्रथममधिगतोऽर्थस्तेनैव प्रवर्तितः पुरुषः प्रापितश्चार्थः / तत्रैवार्थे किमन्येन ज्ञानेनाधिक कार्यम् / ततोऽधिगतावषयमप्रमाणम् / तत्र योऽर्थो दृष्टत्वेन ज्ञातः स प्रत्यक्षण प्रवृत्तिविषयीकृतः / यस्माद्यस्मिन्नर्थे प्रत्यक्षस्य साक्षात्कारित्वव्यापारो विकल्पेनानुगम्यते तस्य प्रदर्शकं प्रत्यक्षम् / तस्मादृदृष्टतया ज्ञातः प्रत्यक्षदर्शितः / अनुमानन्तु लिङ्गदर्शनानिश्चिन्वत्प्रवृत्तिविषयं दर्शयति / यथा च प्रत्यक्ष प्रतिभासमानं नियतमर्थं दर्शयति, अनुमानं च लिङ्गसम्बद्धं नियतमर्थ दर्शयति / अत एते नियतस्यार्थस्य प्र. दर्शके / तेन ते प्रमाणे / नान्यद्विज्ञानम् / प्राप्तुं शक्यमर्थमादसंयत्प्रापकम् / प्रापकत्वाच्च प्रमाणम् / आभ्यां प्रमाणाभ्यामन्येन च ज्ञानेन प्रदर्शितोऽर्थः कश्चिदत्यन्तविपर्यस्तः / यथा मरीचिकामु जलम् / स चासत्त्वात्प्राप्तुमशक्यः / कश्चिदनियतो भावाभावयोः / यथा संशयार्थः / न च भावाभावाभ्यां युक्तोऽर्थो जगत्यस्ति / ततः प्राप्तुमशक्यस्तादृशः / सर्वेण चालिङ्गजेन विकल्पेन नियामकमदृष्ट्वा प्रवृत्तेन भावाभावयोरनियत एवार्थो दर्शयितव्यः / स च प्राप्तुमशक्यः / तस्मादशक्यप्राप. णमत्यन्तविपरीत" भावाभावनियतं चार्थ दर्शयदप्रमाणमन्यज्ज्ञा. नम् / अर्थक्रियार्थिभिश्चार्थक्रियासमर्थार्थप्राप्तिनिमित्तं ज्ञानं मृग्यते / यच्च तैर्मग्यते तदेव तेन शास्त्रे विचार्यते / ततोऽर्थक्रिया: 1 "च" इत्यधिकं पर ख. पुस्तके। 2 ख. तत्रैव चार्थे”। , 3 प्रत्यक्षाएत्वेन। 4 ख. प्रवृत्तिविषयः। 5 निश्चयं कुर्वत् / / " 6 क. पुस्तकस्य "लिङ्गसम्बन्धम्" इति पाठोऽशुद्धो प्रतीयते / 7 ख. नियतार्थस्य"। 8 ख. "उपदर्शयत्' 9 ख. “दर्शिः”। 10 विरुद्धः 11 ख. पुस्तकस्य "अत्यन्तविपरीतभावाभादानि" इति पाठोऽशुद्धो प्रतीयते / 12 "अर्थक्रियासमर्थ" इति पाठो ख. पुस्तके न विद्यते / / 13 "तेन" इति पदं क० पुस्तके नैवोपलभ्यते /